________________
अध्ययनं - २०, [ नि. ४२९]
यम्, इह चानुशिष्टरभिधेया, अर्थधर्मगतिः प्रयोजनम्, अनयोश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः ॥
मू. ( ७१४ )
मू. ( ७१५ )
मू. ( ७१६ )
सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमह-पभूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निज्जाओ, मंडिकुच्छि सि चेइए । नानादुमलयाइन्नं, नानापक्खिनिसेवियं । नानाकुसुमसंछन्नं उज्जानं नंदनोवमं ॥ तत्थ सो पासए साहु, संजयं सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥ तस्स रूवं तु पासित्ता, राइणो तंमि संजए। अच्चंतपरमो आसी, अउलो रूवविम्हो ॥ अहो वन्नो अहो रूवं, अहो अज्जस्स सोमया । अहो खंती, अहो मुत्ती, अहो भोगे असंगया || तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासत्रे, पंजली पडिपुच्छई ॥
मू. ( ७१७ )
मू. ( ७१८ )
मू. ( ७१९ )
मू. ( ७२० )
तरुणोऽसि अज्जो ! पव्वइओ, भोगकालंमि संजया ! | उवडिओऽसि सामने, एअमद्वं सुणेमु ता ॥
वृ. सूत्रसतकं पाठसिद्धमेव, नवरं प्रभृतानि रत्नानि - मरकतादीनि प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः ‘विहारजत्त 'न्ति सुब्व्यत्ययाद् विहारयात्रया क्रीडार्थमश्ववाहनिकादिरूपया ‘निर्यातः' निर्गतो नगरादिति गम्यते, 'मंडिकुच्छिसि 'त्ति मण्डिकुक्षौ मण्डिकुक्षिनाम्नि 'चैत्ये' इत्युद्याने । तदेव नानेत्यादिना विशिनष्टि- 'साहुं संजयं सुसमाहियं 'ति, साधुः सर्वोऽपि शिष्ट उच्यते तद्वयवच्छेदार्थं संयतमित्युक्तं, सोऽपि च बहिः संयमवान्निह्नवादिरपि स्यादिति सुष्ठु समाहितो-मनः समाधानवान् सुसमाहितस्तमित्युक्तं, 'सुहोइयं 'ति सुखोचित्तं शुभोचितं वा ।
४७
‘अत्यन्तपरमः' अतिशयप्रधान: 'अतुलः ' अनन्यसदृशो रूपविषयो रूपविस्मय: 'अहो ?' इत्यादिना विस्मयरूपमुक्तम्, इह च 'अहो ?' इत्याश्चर्ये 'वर्णः' सुस्निश्रो गौरतादि: 'रूपम्' आकारः 'सौम्यता' 'चन्द्रस्येव द्रष्टुरानन्ददायिता 'असङ्गता' निःस्पृहता, पादवन्दनानन्तरं प्रदक्षिणाऽभिधानं पूज्यानामालोक एव प्रणामः क्रियत इति ख्यापनार्थं, तथा चागमः - "आलोए जिनपsिमाण पणामं करेति "त्ति ।
'प्रतिपृच्छति' प्रश्नयति, तरुणेत्यादिना प्रश्नस्वरूपमुक्तम्, इह च यत एव तरुणोऽत एव प्रव्रजितो भोगकाल इत्युच्यते, तारुण्ययस्य भोगकालत्वात्, यद्वा तारुण्येऽपि रोगादिपीडायां न भोगकालः स्यादित्येवमभिधानं, सोऽपि कदाचित्संयमे ऽनुद्यत एव स्यात् त्वं पुनरुपस्थितश्चकृतोद्यमश्च श्रामण्ये, पठन्ति च 'उवहितोऽसि 'त्ति, एनम्, 'अर्थ' निमित्तं येनार्थेन त्वमीदृश्यामप्यवस्थायां प्रव्रजितः शृणोमि 'ता' इति तावत्, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org