________________
४८
उत्तराध्ययन-मूलसूत्रम्-२-२०/७२० भाव इति श्लोकसप्तकार्थः ।। इत्थं राज्ञोक्ते मुनिराहनू.(७२१) अनाहो मि महारायं!, नाही मज्झ न विज्जई।
अनुकंपयं सुहिं वावि, कंची नाहि तुमे महं। वृ.'अनाथ:' अस्वामिकोऽस्मीत्यहं 'महाराज!' प्रशस्यनृपते!, किमित्येवं ? यतो 'नाथ:' योगक्षेमविधाता मम न विद्यते, तथा 'अनुकंपगं'ति आपत्वादनुकम्पको यो मामनुकम्पते, 'सुर्हिति तत एव सुहृद् 'वावि'त्ति प्राग्वदेव'कंचित्ति कश्चिन्न विद्यते, ममेति सम्बन्धः, 'नाहिति प्रक्रमादनन्तरोक्तमर्थं जानीहि तुमि'त्ति त्वं, पठ्यते च-"कंची नाभिसमेमहं' कञ्चिदनुकम्पकं सुहृदं वाऽपि 'नाभिसमेमि' नाभिसंगच्छामि, न केनचिदनुकम्पेन सुहदा वा सङ्गतोऽहमित्यादिनाऽर्थेन तारणुयेऽपि प्रवजित इति भाव इति सूत्रार्थः ।। एवं च मुनिनोक्तेमू. (७२२) तो सो पहसिओ राया, सेणिओ मगहाहिवो।
एवं ते इड्डिमंतस्स, कहं नाहो न विज्जई? ॥ म.(७२३) होमि नाहो भयंताणं, भोगे भुंजाहि संजया !!
मित्तनाईपरिवुडो, मानुस्संखु सुदुल्लहं ।। वृ.सूत्रद्वयं प्रतीतार्थमेव, नवरम् ‘एव मिति दृश्यमानप्रकारेण 'ऋद्धिमतः विस्मयनीयवर्णादिसम्पत्तिमतः कथम्' इति केन प्रकारेण नाथो न विद्यते ?, तत्कालापेक्षया सर्वत्र वर्तमाननिर्देशः, “यत्राकृदिस्तत्र गुणा वसन्ति" तथा 'गुणवति धनं ततः श्रीः श्रीमत्याज्ञा ततो राज्य'मिति हि लोकप्रवादः, तथा च न कथञ्चिदनाथत्वं भवतः संभवतीति भावः, यदि चानाथतैव भवतः प्रव्रज्याप्रतिपत्तिहेतुस्ततः 'होमि'त्ति भवाम्यहं 'भदन्तानां' पूज्यानां, ततश्च मयि नाथे मित्राणि ज्ञातयो भोगाश्च तव सुलभा एवेत्यभिप्रायेण भोगत्वाद्युक्तवान्, मानुष्यं खलु सुदुर्लभमिति च हेत्वभिधानमिति सूत्रद्वयार्थः ॥ मुनिराह- . मू. (७२४) अप्पणावि अनाहोऽसि, सेनिया! मगहाहिवा।
अप्पाणा अनाहो संतो, कहं नाहो भविस्ससि?॥ मू. (७२५) एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ।
वयणं अस्सुअपुव्वं, साहुणा विम्हयं निओ ।। मू.(७२६) अस्सा हत्थी मनुस्सा मे, पुरं अंतेउरं च मे।
भुंजामि मानुसे भोए, आणा इस्सरियं च मे ।। मू. (७२७) एरिसे संपयग्गमि, सव्वकामसमप्पिओ।
कहं अनाहो भवई?, मा हु भंते ! मुसं वए। व.'अप्पणावि' सूत्रं सुगमेव, एवं च मुनिनोक्ते एवं सत्रत्रयं स्पष्टमेव, नवरमाद्यस्य घटनैवस श्रेणिकनामा नरेन्द्रोविस्मयान्वितः प्रागपिरूपादिविषयविस्मयोपेतः सन् 'एवम्' उक्तनीत्या वचनमात्मनाऽप्यनाथस्त्वमित्यादिरूपमश्रुतपूर्व साधुनोक्तः सुसम्भ्रान्तः-अत्याकुलः सुविस्मितश्च-अतीव विस्मयोपेतो भूत्वोक्तवानिति शेषः, यदुक्तवांस्तदाह-'अस्सा' इत्यादिना सूत्रद्वयेन, अत्र चाश्वा से सन्तीत्यादिक्रिया सर्वत्राध्याहर्त्तव्या, अत एव भुनज्मि 'मानुसि'त्ति मानुष्यकान् भोगान् 'आज्ञा' अस्सखलितशासनात्मिका 'ऐश्वर्यं च' द्रव्यादिसमृद्धिः, यद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org