________________
उत्तराध्ययन- मूलसूत्रम् - २ -२०/७१३ विवक्षितत्वादित्थमभिधानम्, अन्यथा मनुष्यत्वादेरौदयकादेरपि भावस्य सम्भवात् ३५ । 'परिणाम' त्ति पुलाकाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचित्रेति, यदा सन्ति तदा जघन्येनैकां द्वौ वा त्रयोवा, उत्कृष्टः शतपृथक्त्वं, पूर्वप्रतिपना अपि यदि स्युस्तदा जघन्येन तथैवात्कृष्टेन सहस्रपृथक्त्वं, बकुशाः प्रतिपद्यमानका यदा स्युस्तदा जघन्येनोत्कृष्टेन च पुलाकवद्वाच्या, पूर्वप्रतिपत्रकास्तु, जघन्येन कोटिशतपृथक्त्वमुत्कृष्टेनाति तदेव, एवं प्रतिसेवका अपि, कपायकुशीलाः प्रतिपाद्यमानका जघन्येन तथैव उत्कृष्टेन सहस्रपृथक्त्वं, पूर्वप्रतिपन्ना जघन्येनोत्कृष्टेन च कोटिसहस्रपृथक्त्वं, निर्ग्रन्थाः प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेन द्विपष्टयधिकं शतं, तत्राष्टोत्तरं शतं क्षपकाणां चतुष्पञ्चाशदुपशमकानां, पूर्वप्रतिपन्नका अपि यदा स्युस्तदा जघन्येन तथैव उत्कृष्टेन शतपृथक्त्वं, स्नातकाः प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेनाष्टोत्तरं शतं पूर्वपतिपन्नकास्तु जघन्येनोत्कृष्टेन च कोटिपृथक्त्वम्, इह च जघन्यत उत्कृष्टतस्तु पृथक्त्वमेवोच्यते, तत्र तज्जघन्यं लघुतरमुत्कृष्टं बृहत्तरमिति भावनीयं ३६ | द्वारं ।
'खलु महानिग्गंथाण अप्पबहु' ति 'खलुः' वाक्यालङ्कारे महानिर्ग्रन्थानां द्रव्यनिर्ग्रन्थापेक्षयाऽमीषामेव प्रशस्यमुनीनामल्पबहुत्वं वाच्यमिति शेषः, तथा सर्वस्तोका निर्गन्थास्ततः पुलाकाः सङ्ख्येयगुणाः, पुलाकेभ्यः स्नातकाः, स्नातकेभ्यो बकुशाः, बकुशेभ्यः प्रतिसेवकाः, प्रतिसेवकेभ्यः कषायकुशीला इति ३७ द्वारगाथात्रयार्थः ॥ साम्प्रतं निर्ग्रन्थनिरुक्तिद्वारेणोपसंहरन्नाह
नि. [ ४२९]
४६
सवाज्जगंथमुक्का अब्धंतरबाहिरेण गंथेण । एसा खलु निज्जुत्ती महानियंठस्स सुत्तस्स ॥ नामनिप्पन्ननिक्षेप:, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीय, तच्चेदम्सिद्धाण नमो किच्चा संजयाणं च भावओ । अत्थधम्मगई तच्च, अनुसिट्ठि सुणेह मे ॥
वृ. सितं - बद्धमिहाष्टविधं कर्म तद् ध्मातं- भस्मसाद्भूतमेषामिति सिद्धा: - ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्त हि "सियं धंतन्ति सिद्धस्स, सिद्धत्तमुवजायति "त्ति, तेभ्यः, कोऽभिप्रायः ? - तीर्थकरसिद्धेभ्य इतरेभ्यश्च 'नमो' नमस्कारं ' कृत्वा' - विधाय 'संयतेभ्यश्च' सकलसावद्यव्यापारोपरतेभ्य आचार्योपाध्यायसर्वसाधुभ्यः इतियावत् 'भावतः ' परमार्थतो न तु संवृत्त्यैव, इत्थं पञ्चपरमेष्ठिरूपेष्टदेवतास्तवमभिधायाभिधेयादित्रयमेवाह- अर्थश्च धर्मश्चार्थधर्मो यदिवाऽर्ध्यते-हितार्थिभिरभिलप्यते इत्यर्थः, स चासौ धर्मश्चार्थधर्मस्ततस्योस्तस्य वा गतिः -- गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छत्तिर्यया यस्यां वा साऽर्थधर्मगतिस्तां, पाठान्तरतोऽर्थ धर्मवर्ती वा 'तच्चं 'ति तथ्याम्-अविपरीताम् ' अनुशिष्टि' हितोपदेशरूपां शिक्षां ' शृणुत' आकर्णयत 'मे' इति मम मया वा कथयतः कथ्यमानां वेति शेष:, स्थविरवचनमेतत् अनेन च पूर्वोत्तरकालभाविक्रियाद्वयानुगतै ककर्तृ प्रतिपादनेनात्मनो नित्यानित्यत्वमाह, एकान्तनित्यत्वे ह्यविचलितरूपत्वान्न पूर्वक्रियाकर्तृत्वस्वरूपपरिहारेणोत्तरक्रियाकर्तृत्वाख्यस्वरूपान्तरसम्भवः, एकान्तानित्यत्वपक्षे तु क्षणध्वंसित्वादुत्तरक्रियाकाल आत्मनोऽसत्त्वमेवेति नैकान्तनित्यानित्यपक्षयोः पूर्वोत्तरक्रियानुगतैककर्तृसम्भव इति भावनी -
For Private & Personal Use Only
www.jainelibrary.org
वृ. प्राग्वत् । गतो मू. ( ७१३ )
Jain Education International