________________
अध्ययनं-२०,[ नि. ४२८] कुशीलाः सञोपयुक्ता नो सञोपयुक्ता, २६ । द्वारम्।। ___ 'आहार'त्ति पुलाकादयो निर्ग्रन्थावसाना आहारका एव, स्नातकस्तु आहारकोऽनाहारको वा २७। द्वारं।
तथा भव'त्ति पुलाकदयश्चत्वारो जघन्यत एकं भवग्रहणमुत्कृष्टतस्तु पुलाकनिर्ग्रन्थयोस्त्रीणि, बकुशप्रतिसेवककपायकुशीलानामष्टौ स्नातकस्याजघन्योत्कृष्टमेकमेव २८ । द्वारं । ___ 'आगरिस'त्तिआकर्षणमाकर्पः, स चेह सर्वविरतेर्ग्रहणमोक्षौ, पुलाकादीनां चतुर्णा जघन्येनैकभविक एव एवाकर्षः, उत्कृष्टेन पुलाकस्य त्रयो बकुरप्रतिसेवककषायकुशीलानां शतशो, निर्ग्रन्थस्य द्वौ, स्नातकस्याजघन्योत्कृष्ट एकः, नानाभविकाकर्षायेपक्षया पुलाकादीनां चतुर्णा जघन्येन द्वौ उत्कृष्टेन पुलाकस्य सप्त, बकुशस्य कुशीलयस्य च सहस्रशो, निर्ग्रन्थस्य पञ्च, स्नातकस्य तु नास्त्येव २९ । द्वारं । ___ 'काले'त्ति पुलाको जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त यावद्भतवित, बकुरप्रतिसेवककषायकुशीलास्तु जघन्येनैकसमयमुत्कृष्टेन देशोनां पूर्वकोटिं, निम्रन्थोऽपि जघन्यत एकं समयमुत्केष्टनान्तर्मुहूतं, तथा च भगवत्याम्-"नियंठे पुच्छा, गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं" अन्ये तु निर्ग्रन्थोऽपि जघन्यत उत्कृष्टश्चान्तर्मुहूर्तमेवेति मन्यन्ते, स्नातको जघन्येनान्तर्मुहूर्तमुत्कृष्टतो देशोनांपूर्वकोटिम्, एवमेकजीवापेक्षया, बहुजीवापेक्षया तु पुलाकनिर्ग्रन्थों जघन्यत एकं समयमुत्केष्टनान्तर्मुहूर्त, बकुशः सर्वाद्धम्, एवं प्रतिसेवककषायकुशीलास्नातका अपि ३० । द्वारम्।
'अंतरे य'त्ति पुलाकादीनां चतुर्णामन्तरं जघन्येनान्तर्मुहूर्तमुत्कृष्टतोऽनन्तं कालं, स च कालतोऽनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रत उपार्द्धपुद्गलपरावर्तो देशोनः, स्नातकस्य नास्त्यन्तरम्, इत्थमेकं प्रति, बहूनांतु पुलाकानिर्ग्रन्थानां जघन्येनैकसमय उत्कृष्टेन पुलाकस्य सङ्खयेयानि वर्षाणि निर्ग्रन्थस्य षण्मासाः, उक्तं हि-'सेदिनियमा छम्मासाउपडिवज्जंतित्ति' शेषाणां नास्त्येव ३१ । द्वारं। _ 'समुग्घाय'त्ति पुलाकस्य वेदनाकषायमारणान्तिकसमुद्घातास्त्रयो, बकुशप्रतिसेवकयोस्त एव वैक्रियतैजसान्विताः पञ्च, कषायकुशीलस्य तु त एवाहारकसहिताः षड्, निर्ग्रन्थस्यैकोऽपि नास्ति, स्नातकस्य केवलिसमुद्घात एक: ३२ । द्वारं।
'खेत्त'त्ति पुलाकादयश्चत्वारो लोकस्यासङ्खयेयभागे नो सङ्खयेयभागे न सङ्घयेयेष्वसङ्घयेयेषु वा भागेषु नापि सर्वलोके,
स्नातकोऽसङ्ख्येयभागेऽसङ्ख्येयेषु भागेषु सर्वलोके वा, न शेषेषु, तथा च प्रज्ञप्ति:- "सिणाए पुच्छा, गोयमा! नो संखिज्जे भागे हुज्जा असंखिज्जे भागे हुज्जा नो संखेज्जेसु भागेसु होज्जा असंखिज्जेसु भागेसु हुज्जा सव्वलोए वा होज्जति" चूर्णिकारस्त्वाह-सङ्घयेयभागादिषु सर्वेषु भवति ३३ । द्वारं।
'फुसणा उत्ति स्पर्शना च क्षेत्रवद्वाच्या ३४ । द्वारं। 'भावे'त्ति पुलाकादयस्रयः क्षायोपशमिके भावे निर्ग्रन्थ औपशमिके क्षायिके वा, स्नातक: क्षायिके, इह तु पुलाकादयो निर्ग्रन्थाः, निर्ग्रन्थत्वं तु चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org