SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-२-२०/७१३ 'उवओग'त्ति, पुलाकादयश्चत्वारो मतिश्रुतावधिमन: पर्यायभेदतश्चतुर्भेदे साकारोपयोगे चक्षुरचक्षुरवधिविकल्पतस्त्रिविधे चानाकारोपयोगे स्युः, स्नातकः केवलज्ञानदर्शनाख्ययोर्द्वयोरेव १८ । द्वारं । ___ 'कसाय'त्ति पुलाकबकुशप्रतिसेवका: संज्वलनकषायैश्चतुः कषायाः कषायकुशीलश्चतुर्षु संज्वलनक्रोधादिषु त्रिपु द्वयोरेकस्मिन् वा स्यात्, निर्ग्रन्थोऽकषायः स चोपशमत: क्षयतो वा, एवं स्नातको, नवरमसौं क्षीणकषाय एव १९ । द्वारं। ___ "लेस'त्ति पुलाकबकुशप्रतिसेवकाः पीतपद्मशुक्लाभिधानासु तिसृषु लेश्यासु, कषायकुशीलः षट्स्वपि, निर्ग्रन्थः शुक्लेश्यायां, स्नातकस्तस्यामेवातिशुद्धायाम्, २० । द्वारं।। 'परिणामे य'त्ति पुलाकबकुशप्रतिसेवककषायकुशीला वर्द्धमाने हीयमानेऽवस्थिते वा परिणामे स्युः, निर्ग्रन्थस्नातकौ वर्द्धमानवस्थितपरिणामावेव, तत्र च पुलाकदयस्त्रयो वर्द्धमाने परिणामे, अवस्थिते तु जघन्येनैकं समयं, समयानन्तरं कपायकुशीलत्वादिगमनने मरणेन वा, नवरं पुलाकस्य मरणं नास्ति, उक्तं च-"पुलाके तत्थ नो मरति"त्ति। उत्कृष्टेनान्तर्मुहूर्तम्, एवं हीयमानेऽपि, अवस्थिते तु जघन्येनैकं, समयम् उत्कृष्टेनान्तर्मुहूत्तं, तथा चागमः-"नियंठे णं भंते! केवतियं कालं वद्धमाणपरिणामे होज्जा?, गोयमा! जहनेणं अंतोमुहत्तं, उक्कोसेणपि अंतोमुहुत्तं । केवइयं कालं अवट्ठियपरिणामे होज्जा?, गोयमा? जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं'ति । अपरे व्यमृत्कृष्टताऽवस्थितपरिणामे सप्त समयानित्यादुः, स्नातको जघन्येन उत्कृष्टेन च वर्द्धमानपरिणामेऽन्तर्मुहूर्तमवस्थितपरिणामे जघन्यतोऽन्तर्मुहूर्तमुत्कुष्टेन देशोनां पूर्वकोटीम् २१ । द्वारं। ___ 'बंधन'त्ति कर्मबन्धनं, तत्रायुर्वर्जाः, सप्त कर्मप्रकृती: पुलाकोबन्धाति, बकुशप्रतिसेवको तु सप्त अष्टौ वा, आयुषोऽपि तर्योर्बन्धसम्भवात्, कषायकुशीलाऽष्टौ सप्त पड्वाऽऽयुर्मोहवर्जाः, निर्ग्रन्थस्त्वेकमेव सातं, स्नातकोऽप्येवमबन्धको वा २२ । द्वारं। 'उदय'ति कर्मोदयः, पुलाकबकुशप्रतिसेवककषायाकुशीला अष्टविधमपि कर्म वेदयन्ते, निर्ग्रन्थो मोहवर्जाः सप्त, स्नातको वेद्यायुर्नामगोत्राख्याश्चतस्रः २३ । द्वारं। . 'कम्मोदीरण'त्ति पुलाक आयुर्वेदनीयवरजाः षट्कर्मप्रकृतिरुदीरयति, बकुशप्रतिसेवकावष्टावायुर्वर्जाः, सप्त षड् आयुर्वेदनीयवर्जाः, कषायस्त्वेते एव द्वे अनुदीरको वा २४ । द्वारं । ___ 'उवसंपजहण'त्ति उवसंपदनम्-उपसम्पद-अन्यरूपप्रतिपत्तिः, साचहानंच-स्वरूपपरित्याग उपसम्पद्धानं, तत्र पुलाकः पुलाकतां त्यजस्तां परित्यजति कपायकुशीलत्वमसंयमं वोपसम्पद्यते, कोऽभिप्रायः?-न रूपान्तरापत्ति विना पूर्वरूपपरित्यागो नापि तत्परित्यागं विना तदापत्तिः, कथञ्चिन्नित्यानित्यरूपत्वाद्वस्तुनः, एवं सर्वत्र भावनीयं, बकुशोऽपि बकुशतां त्यजन् तां परित्यजति प्रतिसेवकत्वं कषायकुशीलत्वमसंयम संयमासंयमं वोपसंपद्यते, प्रतिसेवनाकुशीलः प्रतिसेवनाकुशीलत्वं त्यंजस्तत्परित्यजति पुलाकादित्रयं निर्ग्रन्थत्वमसंयम संयमासंयमवोपसम्पद्ते, निर्ग्रन्थो निर्ग्रन्थत्वं त्यजस्तत्परित्यजति कपायकुशलीत्वं स्नातकत्वमसंयम वोपसम्पद्यते, स्नातक: स्नातकत्वं त्यजस्तत्परित्यजति सिद्धिगतिमुपसम्पद्यते २५ । द्वारं । 'सन्न'त्ति सञ्ज्ञा, तत्र पुलाकनिम्रन्थस्नातका नोसञोपयुक्ताः, बकुशप्रतिसेवककषाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy