SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२०,[ नि, ४२८ ] स्नातकादीनां तु पूर्वसुहतत्वेन तत्संभवः, उक्तं हि-"पुलागलद्धीए वट्टमानो न सक्किज्जइ उवसंहरिङ, तहा सिणाइयाणं जो संहरणादिसंभवो सो पुचोवसंहरियाणं,जओ केबलियादिणों नोवसंहरिजंति"त्ति १२ । द्वारं । ___ 'गति'त्ति 'गतिः' प्रागुक्तैव नवरमिहाराधनाविराधनाकृतो विशेष उच्यते -तत्र पुलाकोऽ.. विराधानाद् इन्द्रपूत्पद्यते, विराधनातस्त्विन्द्रसामानिकत्रयस्त्रिंशलोकपालानामन्यतमेषु, एवं वकुशप्रतिसेवनाकुशीलावापि, कषायकुशीलः पुनरविराधनया इन्द्रेष्वहमिन्द्रेपु वा जायते, विराधनयेन्द्रादीनामन्यतमेपु, निर्ग्रन्थस्त्वहमिन्द्रेष्वेवोत्पद्यते १३ । द्वारं । ___ 'ठिति'त्ति, पुलाकस्य जघन्येन पल्योपमपृथक्वं स्थितिरुत्कृष्टतोऽष्टादश सागरोपमाणि, बकुशप्रतिसेवनाकषायकुशीलानामपि जघन्यत: पल्योपमपृथक्त्वमुत्कृष्टतो बकुशप्रतिसेवकयोविंशतिसागरोपमाणि, कषायकुशीलस्य तु त्रयस्त्रिंशत्, निर्ग्रन्थस्याजघन्योत्कृष्टा त्रयस्त्रिंशदेवेति १४ । द्वारं। 'संजमे 'त्ति पुलाकबशुकप्रतिसेवककषायाकुशीलानामसङ्खयेयानि संयमस्थानानि, निर्ग्रन्थस्नातकयोरजघन्योत्कृष्टमेकमेव संयमस्थानं १५ । द्वार। 'निगासि'ति, आर्णत्वात्समा(मो)लोपे सनिकर्षः-स्वस्थानपरस्थानापेक्षया तुल्याधिकहीनत्वचिन्तनं, तत्र च संयमस्थानापेक्षया सर्वस्तोकं निर्ग्रन्थस्य, स्नातकस्य चैकमजधन्योत्कृष्टं संयमस्थानं ततः पुलाकस्यासङ्घयेयगुणानि, एवं बशुकप्रतिसेवककषायाकुशीलानामपि पूर्वपूर्वापेक्ष्याऽसङ्घयेयगुणत्वं भावतीयम्, अमीषां च पञ्चानामपि प्रत्येकमनन्ताश्चारित्रपर्यायाः, यत उक्तम्-"पुलाकस्य णं भंते ! केवतिया चरित्तपज्जवा पन्नत्ता?, गोयमा! अनंता चरित्त - पज्जवा पात्ता, एवं जाव सिणायस्सत्ति" तथा च-चारित्रपर्यायापेक्षया स्वस्थानं सन्निकर्पचिन्तायां पुलाक: पुलाकस्य चरित्रपर्यायः स्याद्धीनस्तुल्योऽधिको वा, तत्र हीनोऽधिको वा भवन्ननन्तासङ्घयसङ्खयेयभागसङ्ख्यातासङ्ख्यातानन्तगुणलक्षणेन षट्कस्थानके स्यात्, एवं बकुशप्रतिसेवककषायाकुशीला अति स्वस्थानहीनाधिक चिन्ताया षट्स्थानपतिता एव, निर्ग्रन्थस्नातकौ तु स्वस्थानचिन्तायां तुल्यावेव, परस्थानसन्त्रिकर्षचिन्तायां पुलाको बकुशप्रतिसेवकनिर्ग्रन्थस्नातके भ्यश्चरित्रपर्यायैरनन्तगुणहीनो न तु तुल्योऽधिको वा, कपायकुशीलापेक्षया षट्स्थानपतितः, तथा चागमः- "पुलाए णं भंते ! बउसस्स परट्टाणसनिगासेणं चरित्तपज्जवेहिं कि होणे तुल्ले अब्भहिए?, गोयमा! हीने नो तुल्ले नो अब्भहीए, अनंतगुणहीने, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेण समं छट्ठाणवडिए, जहेव सट्ठाणनियंठस्स, जहा बउसस्स एवं सिणायस्सवि" केचित्तु प्रतिसेवनाकुशीलापेक्षयापि पट्स्थानपतित इत्याहुः, बकुशः पुलाकापेक्षया चरित्रपर्यायैरनन्तगुणाधिक: प्रतिसेवककपायकुशीलौ तु प्रति षट्स्थानपतित: निम्रन्थस्नातकाभ्यामनन्तगुणहीनः, एवं प्रतिसेवककषायकुशीलयोरपि परस्थानसंनिकर्षो वाच्यो नवरंकषायकुशील: पुलाकापेक्षया षट्स्थानपतितः, निर्ग्रन्थस्नातकौ पुलाकाद्यपेक्षयाऽनन्तगुणाधिकाविति १६ । द्वारं। 'जोग'त्ति पुलाकादीनां निर्ग्रन्थावसानानां मनोवाकायास्त्रयोऽपि योगाः स्युः, स्नातक: सयोगोऽयोगो वा स्यात् १७ । द्वारं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy