________________
४२
उत्तराध्ययन-मूलसूत्रम्-२-२०/७१२ स्थविरकल्पे जिनकल्पे वा, न तु कल्पातीतः, तथा चागमः- “पुलाए णं भंते ! किं जिनकप्पे होज्जा? थेरकप्पे होज्जा? कप्पाईए होज्जा?, गोयमा ! जिनकप्पे वा होज्जा थेरकप्पे वा होज्जा नो कप्पातीते होज्ज"त्ति, अन्ये त्वाः- स्थविरकल्प एवेति, बकुशप्रतिसेवनाकुशीलावपि जिनकल्पे स्थविरकल्पे वा, न तु कल्पातीतो कपायकुशीलस्त्रिप्वपि स्यात्, निर्ग्रन्थस्नातकारौ कल्पातीतावपि ४ । द्वार।
'चरित्त'मिति पुलाकबकुशप्रतिसेवनाकुशीला: सामायिकच्छेदोपस्थापनीययोः, कपाय - कुशीलश्चैतयोः परिहारविशुद्धसूक्ष्मसंपराययोश्च, निर्ग्रन्थो यथाख्यात एव, एवं स्नातकोऽपि ५। द्वारं।
'पडिसेवण'त्ति, पुलाकः प्रतिसेवको नाप्रतिसेवकः, स हि मूलगुणोत्तरगुणानामन्यतमविराधनात एव भवति, बकुशोऽपि प्रतिसेवक एव, नवरमुत्तरगुणविराधनातः, प्रतिसेवनाकुशीलः पुलाकवत्, कपायकुशीलनिम्रन्थस्नातका अप्रतिसेवका एव ६ द्वारं । _ 'नाण'त्ति पुलाकबकुशप्रतिसेवका द्वयो ज्ञानयोस्त्रिपुवा, तत्र द्वयोर्मतिश्रुतयोस्त्रिपुमतिश्रुतावधिषु, इह च पुलाकस्य श्रुतं नवमपूर्वतृतीयाचारवस्तुन आरभ्य यावन्नय पूर्वाणि, उक्तं हि"आरतो परओ वा नलद्धी लभइ" कपायकुशीलो द्वयोस्त्रिषु चतुर्युवा, तत्र द्वयोमतिश्रुतयोस्त्रिषु मतिश्रुतावधिषु मतिश्रुतमनःपर्यायेषु (वा चतुर्यु) मतिश्रुतावधिमनःपर्यायेषु, निर्ग्रन्थोऽप्येवमेव, स्नातकस्तु केवलज्ञान एव, श्रुतज्ञाने तु कः कुत्र वर्त्तते इतल् क्षुल्लकनिर्ग्रन्थीय एवोक्तत्वान्न पुनरुच्यते ७ द्वारं। ___ "तित्थ'त्ति इह च तीर्थ' यत्तीर्थकरेण क्रियते, पुलाको बकुशप्रतिसेवकौ च तीर्थे, कषायकुशीलस्तु तीर्थऽतीर्थे वा, अतीर्थे च भवन् तीर्थकरो वा स्यात् प्रत्येकबुद्धो वा, एवं निर्ग्रन्थस्नातकावपि ८1 द्वारं। _ 'लिंग'त्ति लिङ्गं द्विधा-द्रव्यभावभेदात्, तत्रामी द्रव्यतः स्वलिङ्गे अन्यलिङ्गे गृहिलिङ्गे वा स्युः, भावतस्तु स्वलिङ्ग एव ९ । द्वारं । ___ 'सरिरे'त्ति पुलाकस्त्रिष्वौदारिकतैजसकार्मणेषु, बकुशप्रतिसेवनाकुशीलौ त्रिषु चतुषु वा, वैक्रियस्यापि तयोः संभवात्, कषायकुशीलोऽप्येवं पञ्चसु च, तस्याहारके ऽपि सम्भवात्, निर्ग्रन्थः स्नातकश्च पुलाकवत् १० । द्वारं। ___ 'खेत्त'त्ति 'क्षेत्रं' कर्मभूम्यादि, तत्र जन्म सद्भावं च प्रतीत्य पञ्चाप्यमी कर्मभूमामेव स्युः, यथासम्भवं च संहरण प्रतीत्य कर्मभूमावकर्मभूमौ वा ११ । द्वारं ।
'कालोत्ति कालतः पञ्चापि पुलाकादयो जन्मतः सद्भावतश्चावसर्पिण्यां सुष्मदुष्ष्मादुण्मसुषमादुण्माभिधानेषु कालेषु स्युः, उत्सर्पिण्या दुष्मसुपमासुपमदुप्पयोः, इदं च भरतैरावतदशके, विदेहपञ्चकेपु चतुर्थकालप्रतिभागे यथासम्भवं संहरणं प्रतीत्य यथोक्तादन्यत्रापि काले स्युः, प्रज्ञप्त्यभिप्रायस्त्वयं-जन्मतः सद्भावतश्च पुलाकोऽवसर्पिण्यां सुष्मदुष्पमदुष्पमसुपमाकाले च, न तु शेषेपु, उत्सर्पिण्यां जन्मतो दुष्पमायां दुष्पमासुषमायां सुषमादुष्यमायां, सद्भावश्च दुष्पमासुषमायां सुषमादुष्प्मायां चेति भरतैरावतयोः, महाविदेहे तु चतुर्थप्रतिभागे पञ्चापि सर्वदैव स्युः, यथासम्भवं संहरणतो न कदाचिनिषिध्यन्ते, नवरं तत्पुलाकस्य नास्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org