________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ पूरणे, पितुः' जनकस्य, पुत्र इति गम्यते, एवंविधोल्लेखव्यङ्गये, अत्रात्मनः पित्रा सहात्मकद्वारकः स्वस्वामिभावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारकः, मम पितुरयं, पुत्र इति पितृद्धारेणासावितिकृत्वा तत उभयद्वारकत्वादुभयविषयसंयोग उभयसम्बन्धनसंयोगः, इतिशब्दो मम पितुः मम भ्रातुः मम दासस्य कम्बल इत्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकः, ___ अनेन लौकिके स्वामित्व उभयसम्बन्धनसंयोग उक्तः, लोकोत्तरमेवाह-मम 'कुले' नागेन्द्रादावयं साध्वादिरिति गम्यते, यद्वा कुलमेव कुलकं तस्य, 'चः' समुच्चये योक्ष्यते, ततोऽहमेव अहकम् अभ्यन्तर: 'अस्मि' भवामि, चशब्दादयं च साध्वादिरित्येवंविधोल्लेखद्वयव्यङ्गय एषोऽप्युशयसम्बन्धनसंयोग इति वृद्धाः, अत्र हि मच्छब्दवाच्यस्य कुलेन सहात्मद्वारक: स्वस्वामिभावसम्बन्धः, कुलान्तर्वतिना च साध्वादिना परद्वारको, मम कुलेऽयमिति कुलद्वारकत्वादस्य, ततोऽयमपि प्राग्वदुभयसम्बन्धनसंयोगः, इहापि इतिशब्दोऽयं मम गुरोः साध्वादिरित्याद्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकार्थः, इह चोल्लेस्वद्वयाभिधानमेकत्राप्यनेकोल्लेखसम्भवख्यानार्थमिति गाथार्थः ।। पुनरन्यथा तमेवाहनि.[६०] पच्चयओ य बहुविहो निम्वित्ती पच्चओ जिनस्सेव ।
देहा य बद्धमुक्का माइपिइसुआइ अ हवंति !! व. प्रतीयतेऽनेनार्थ इति पत्ययः-ज्ञानकारणं घटादिः, सर्वथा निरालम्बनज्ञानाभावेन तदविनाभावित्वात ज्ञानस्य, ततस्तमाश्रित्य, चकारात् ज्ञानतश्च-ज्ञानं चाश्रित्य 'बहुविधः' बहुप्रकारः, प्रक्रमादात्मनो यः संयोगः स उभयसम्बन्धसंयोगः, तद्बहुत्वं च प्रत्ययानां तद्विशिष्टज्ञानानां च बहुविधत्वात्, तथा च वृद्धाः-घटंप्रतीत्य घटज्ञानं पटंप्रतीत्य पटज्ञानम् एवमादीनि प्रत्ययात् ज्ञानानि भवन्ति, तथा च सति ज्ञानेनात्मद्वारको, ममेदं ज्ञानमिति प्रत्ययेन परद्वारको, मम ज्ञानस्यायं विषय इति ज्ञानद्वारकत्वात्तस्य तत उभयविषयत्वादुभयसम्बन्धनसंयोगः।
आह-एवं केवलिनोऽप्युभयसंयोग एवेति, अत्रोच्यते, 'निर्वत्तिः' इत्यत्तरत्रैवकारस्य भिन्नक्रमत्वानिवृत्तिरेव-सकलावरणक्षयादुत्पत्तिरेव प्रत्ययो जिनस्य, जिनसम्बन्धिज्ञानस्येति गम्यते, इदमाकूतम्-छद्मस्थानं हिमत्यादिकं लब्धिरूपतयोत्पन्नप्युपयोगरूपतायां बाह्यमति घटादिकमपेक्षते, तथाहि-घटं प्रतीत्य घटज्ञानं पटं प्रतीत्य पटज्ञानं, केवलिनस्तु ज्ञानं लब्धिरूपतयोत्पत्रां पुनरुपयोगरूपतां प्रति न बाह्यं घटादिकमपेक्षते-तज्ज्ञानस्योत्पत्तिसमकालमेव सकलातीतानागतदूरान्तरितस्थूलसूक्ष्मार्थयाथात्म्यवेदितयैवोपयोगभावात्, यदुक्तम्
"उभयवरणाईतो केवलवरनाणदंसणसहावो।
जाणइ पासइ य जिनो सव्वं नेयं सयाकालं ।।" ततः केवलज्ञानस्य सर्वत्र सततोपयोगेन नोपयोगं प्रति बाह्यापेक्षेति निर्वृत्तिरेव प्रत्ययः, ततो न छास्थज्ञानस्येव प्रत्ययत उभयसंयोगः।आह-उक्त एव ज्ञानस्योभयसंयोगः, तत् कि पुनरुच्यते?, सत्यम्, उक्तः स तत्राक्षेप्याक्षेपकभावेन, इह त्वेकस्यापि वस्तुन उपाधिभेदेनानेकसम्बन्धसम्मभवख्यापनाय जन्मजनकभावेनोच्यते इति न दोषः।
उभयसम्बन्धनसंयोगमेव पुनः स्वस्वामिभावेनाह-'दिह्यन्ते-उपचीयन्ते पुद्गलैरिति देहा:-काया: तेच बद्धा-इह जन्मनि जीवेन सम्बद्धा मुक्ता अन्यजन्मनि तेनैवोज्झिता अनयो?For Private & Personal Use Only
www.jainelibrary.org
Jain Education International