________________
अध्ययनं -१, [ नि. ६०]
४१
न्द्वे बद्धमुक्ताः, 'माइपितिसुयाइ 'त्ति 'नो जसूशसोर्लोपे ' आर्षत्वाच्च 'लोपे दीर्घ' इति दीर्घत्वस्याभावे पितृमातृसुतादयः, आदिशब्दाद् भ्रातृभगिन्यादयो, बद्धमुक्ता इत्यत्रापि योज्यते, शब्दो ऽयं पूर्वश्च समुच्चये, एते च किमित्याह- 'भवंति 'त्ति जायन्ते, प्राग्वदुभयसम्बन्धनसंयोगः, जीवस्येति गम्यते, इयमत्र भावना - बद्धा देहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्योऽन्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविषयतयाऽऽत्मवद् दृश्यमानत्वेन, मुक्तास्तूभये बाह्याः, तत्र देहा आत्मनः पृथग्भूतत्वेन मात्रादयश्च तथाविधस्नेहाविषयतयाऽऽत्मवद्दृश्यमानत्वेन, अतो देहैर्मात्रादिभिश्च बद्धमुक्तैः स्वस्वाभिवालक्षणसम्बन्धो जीवस्यो भयसम्बन्धसुयोगः ।
आह-देहादयो मुक्ताश्च स्वस्वामिविषयाश्चेति विरुद्धमेतत् एवमेतद्, यदि भावतोऽपि मुक्ताः स्युः, अथ भावतो ऽप्यहमेषां स्वामी ममैते स्वमितिभावाभावान्मुक्ता एव ते, नन्वेवमैहिकेष्वप्यमीष्वपरापरोपयोगवत आत्मनो न सततमेवं भावोऽस्तीति कथं तेष्वपि तद्विषतया ?, अथ तेष्वेवं भावाभावेऽपि व्युत्सर्गाकरणतस्तद्विषयत्वम्, एतदिहापि समानं, व्युत्सर्गाकरणत एव तद्विषयत्वस्येहापि विवक्षितत्वादिति । इत्थमनेकधा सम्बन्धनसंयोग उक्तः, संबंधणसंजोगो कसायबहुल्लस होइ जीवस्स । पहुणो वा अपहुस्स व मज्झंति ममज्जमाणस्स ॥
नि. [ ६१]
वृ. ‘सम्बन्धनसंयोगः’ उक्तरूपः, कषाया: - क्रोधादयस्तेर्बहुलस्य-व्याप्तस्य, प्रभूतकषायस्येत्यर्थः, 'भवति' जायते, कस्य ? - जीवस्य पुनः कीदृशस्य ? - प्रभवति सम्बन्धिवस्तु तत्र तत्र स्वकृत्ये नियोक्तुं समर्थो भवतीति प्रभुस्तस्य वा 'अप्रभोर्वा' उक्तविपरीतस्य, वाशब्दौ समुच्चये, उभयोरपि संयोगसाम्यं प्रति कारणमाह-'मज्झंति ममज्जमानस्स' त्ति ममेदं नगरजनपदादीति ममत्वाचारतः, इदमुक्तं भवति-सत्यसति वा मत्सम्बन्धितया बाह्यवस्तुनि तत्त्वतोऽभिष्वङ्ग एव सम्बन्धनसंयोगः, अनेन च काक्वा कषायबहुलत्वे हेतुरुक्तः, कषायबहुलस्येति च ब्रुवता कषायद्वारेण सम्बन्धनसंयोगस्य कर्मबन्धहेतुत्वं ख्यापितं भवति, आहमिथ्यात्वादयो हि बन्धहेतवः, तत्कथं कषायसत्तामात्रेणैव तद्धेतुख्यापनम् ?, उच्यते, तेषामेव तत्र प्राधान्यात्, तत्प्राधान्यं च तत्तारतम्येनैव वत् कषायबहुलस्य जीवस्येत्युच्यते, ततोऽकषायहेतुकत्वेऽप्योपशमिकादिभावे नामादिसंयोगानामजीवविषयत्वेऽपि च शीतोष्णादिविरोधिसंयोगानां सम्बन्धनसंयोगत्वं न विरुध्यते ।
आह- एवमभिप्रेतानभिप्रेतसंयोगयोरपि तत्त्वतः सकषायजीवविषयत्वात् सम्बन्धनसंयोगत्वप्राप्तिः, सत्यं, तथापीन्द्रियमनसोः साक्षात्तावुक्तौ, अयं तु जीवस्येति न दोषः । अन्यस्त्वाह-संयुक्तकसंयोगोऽपि दिष्टत्वेनेतरेतरस्यैव तथेतरेतरसंयोगोऽपि स्वपरधर्मैः संयुक्तत्वात् सर्ववस्तुनः संयुक्तस्यैवेति नानयोः प्रतिविशेषः, एवमेतत्, तथाऽप्येकस्कन्धताऽऽपन्नद्रव्यविषयः संयुक्तसंयोगः, इतरेतरसंयोगस्तु तथाऽन्यथा च तत्र परमाणुसंयोगस्तथा प्रदेशादिसंयोगस्तु प्रायोऽन्यथेति युक्त एव तयोर्भेदः, एवं तर्हि परमाणु संयोगस्य संयुक्तसंयोगभेदोऽस्तूभयोरपिएकस्कन्धताऽऽपन्नद्रव्यविषयत्वात्, अयमपि न दोष:, यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि) निष्पाद्यमानत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org