________________
अध्ययनं १, [ नि. ५८ ]
विव्रियन्ते ६ | प्रयोगमतिसम्पच्चतुर्धा - आत्मपुरुषक्षेत्रवस्तुविज्ञानात्मिका, तत्राऽऽत्मज्ञानंवादादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मम शक्तिरस्ति नवा ? इत्यालोचनं ?, पुरुषज्ञानंकिमयं प्रतिवादि पुरुष: सांख्य: सौगतोऽन्यो वा ?, तथा प्रतिभादिमानितरो वेति परिभावनं २, क्षेत्रज्ञानंकिमिदं मायाबहुलमन्यथा वा ?, तथा साधुभिरभावितं भावितं वा नगरादीति विमर्शनं ३, वस्तुज्ञानं किमिदं राजाऽमात्यादि सभासदादि वा वस्तु दारुण्यमदारुणं भद्रकमभद्रकं वेति निरूपणं ४, ७
संग्रहपरिज्ञा तु बालदुर्बलग्ला निर्वाहबहुजनयोग्यक्षेत्रग्रहणलक्षणैका १ निषद्यादिमालिन्यपरिहाराय फलकपीठोपादानाऽऽत्मिका द्वितीया २ यथासमयमेव स्वाध्यायोपधिसमुत्पादनप्रत्युपेक्षणभिक्षादिकरणात्मिका तृतीया ३ प्रव्रजकाध्यापकरत्नाधिकादिगुरूणामुपधिवहनविश्रामसंपूजनाभ्युत्थानदण्डकोषादानादिरूपा चतुर्थीति ४, ८ ।
इत्युक्ता अष्टौ चतुर्गुणा आचारादिगणिसम्पदः, विनयस्तूत्तरत्राचार्यविनयप्रस्तावेऽभिधास्यते इति गतं प्रासङ्गिकं प्रकृतमुच्यते तत्राऽऽचार्यस्य स्वरूपमभिहितं शिष्यस्याहआचार्यस्य, अपिभिन्नक्रमः, ततः शिष्योऽपि, न केवलमाचार्यस्ताऽदृशा यादृशो नवरं स एवेति वचनादाचार्य इत्यपिशब्दार्थः, 'सदृशः ' तुल्यः, सर्वैरपि न कतिपयैरेव, कै: ?, 'गुणै: ' साधारणैः क्षान्त्यादिभिरिति गम्यते, यद्वा लक्षणे तृतीया, ततः सर्वैरपि स्वगुणैर्लक्षितः शिष्य आचार्यस्य सदृश इति योज्यं, सादृश्यं च स्वगुणमाहात्म्यविभूतित उभयोरपि यथोक्तान्वर्थमुक्तत्त्व ) मेव, अथवाऽऽचार्यस्यापीति अपेरेवकारार्थत्वात् स्वगुणोपलक्षितः शिष्यः सदृश एव - अनुरूप एव, अनुरूपार्थस्यापि सदृशशब्दस्य दर्शनात्, यथाऽऽत्मसदृशं कुर्याः, कुलानुरूपमित्यर्थः, अननुरूपस्तु तत्त्वतोऽ शिष्य एवेति भावः, अथ के अमी शिष्यगुणाः, ? उच्यन्ते, 'भाववियानानमनुयत्तणा उ भत्ती गुरूण बहुमानो । दक्खत्तं दक्खिनं सीलं कुलमुज्जमो लज्जा ॥ १ ॥ सुस्सूसा पडिपुच्छा सुननं गहणं च ईहणमवाओ। धरणं करणं सम्मं एमाई होंति सी सगुणा ॥२॥ "
इति गाथार्थः ॥ इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः स्वरूपक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह
नि. [५९] एवं नाणे चरणे सामित्ते अप्पणो उ (य) पिउनोत्ति । मज्झं कुलेsयमस्स य अहयं अभितरी मित्ति ॥
३९
वृ. 'एवम्' अनन्तरोक्तबाह्यसंयोगवदाक्षेप्याक्षेपकभावेन 'ज्ञाने' ज्ञानविषय: 'चरणे' चरणविषयः, आत्म न उभयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धा:, अत्र भावना - ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिर्निराश्रयस्य निर्विषयस्य च ज्ञानस्यासम्भवादवश्यं ज्ञानिनं च चाऽऽक्षिपतीति, ज्ञानाक्षिप्तेन च ज्ञेयेन बाह्येन तद्द्द्वारकः संयोग इत्युभयसंयोगः । एवं चरणे - नाप्यात्मभूतेनोक्तवत्तदाक्षिप्तेन चर्यमाणेन च बाह्येन संयोग इत्युभयसम्बन्धनसंयोगः, अयमाक्षेप्याऽऽक्षेपकभावे उभयसम्बन्धनसंयोग उक्तः, अमुमेव प्रकारान्तरेणाह - 'स्वामित्वेन' स्वामित्वविषयः, उभयसम्बन्धनसंयोग इति प्रक्रमः, किंरूप ? इत्याह- 'आत्मनः ' मम 'चः '
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International