________________
अध्ययनं-१९,[ नि.४१७]
३५ गृहीतोऽपि मकरजालैरेव मारितश्च सर्वैरपि, विशेषेण दशन्तीति विदंशका:-श्येनादयस्तैर्जालैःतथाविधबन्धनैः 'लेप्पाहिं'ति लेपैर्वज्रलेपादिभिः श्लैषद्रव्यैः 'सउणोविव'त्ति 'शकुन इव' पक्षीव गृहीतो विदंशकैलैिश्च लग्नश्च 'श्लिष्टो' लेपद्रव्यैर्बद्धः, तैर्जालैश्च, मारितश्च सर्वैरपि, 'कुट्टित: सूक्ष्मखण्डीकृतः पाटितश्छिन्नश्च प्राग्वत्, तक्षितश्च त्वगपनयनतो द्रुम इवेति सर्वत्र योज्यां । __ 'चवेडमुठ्ठिमाईहि'ति चपेटामुष्ट्यदिभिः प्रतीतैरेव 'कुमारेः' अयस्कारैः 'अयं पिव'त्ति अय इव धनादिभिरिति गम्यते 'ताडितः' आहतः कुट्टितः' इह छिन्नः 'भिन्नः' खण्डीकतः 'चूर्णितः' श्लक्ष्णीकृतः प्रक्रमात्परमाधार्मिकै: तप्तताम्रादीनि वैक्रियाणि पृथव्यनुभावभूतानि वा 'कलकलंत'त्ति अतिक्वाथत: कलकलशब्दं कुर्वन्ति ।
तव प्रियाणि मांसानि खण्डरूपाणि 'सोल्लगाणि'त्ति भडिजीकृतानि स्मारयित्वेति शेषः, स्वमांसानि मच्छरीरादेवोत्कृत्योत्कृत्य ढौकितानि 'अग्निवर्णानि' अतितप्ततयाऽग्निच्छायानि सुरादीनि मद्यविशेषणरूपाणि, इहापि स्मारयित्वेति शेपः, 'पज्जितोमि'त्ति पायितोऽस्मि 'जलं तीओ'त्ति ज्वलन्तिरिव ज्वलन्तीरत्यु ष्णतया वशा रुधिराणि च, ज्वलन्तीति लिङ्गविपरिणामेन सम्बन्धनीयम् ॥ _ 'निच्च' मित्यादि, नरकवक्तव्यतोपसंहर्तृ सूत्रत्रयम्, अत्र च 'भीतेन' उत्पन्नासाध्वसेन तथा 'त्रसी उद्वेगे' 'त्रस्तेन' उद्विग्रेनात एव 'दुःखितेन' संजातविविधदुःखेन 'व्यथितेन च' कम्पमानसकलाङ्गोपाङ्गतया चलितेन, दुःखसंबद्धेति वेदनाविशेषणं सुखसम्बन्धिन्या अपि वेदनायाः सम्भवाद्, 'वेदिते'ति चानुभूता, तीव्रा अनुभागतोऽत एव चण्डाः- उत्कटाः प्रगाढा:गुरुस्थितिकास्तत एव 'घोराः' रौद्राः 'अतिदुस्सहा:' अत्यन्तदुरध्यासास्तत एव च महद्भयं यकाभ्यस्ता महाभयाः, पठ्यते च-महालयाः-महत्यः, 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकाथिकानि वैतान्यत्यन्तभयोत्पादनायोक्तानि, इह च वेदना इति प्रक्रमः ।। कथं पुनस्तस्यास्तीवादिरूपत्वमित्याशङ्कय जारिसे' त्यादिना इहत्यवेदनापेक्षया नरकदुःखवेदनाया अनन्तगुणत्वमाह-'वेयण'त्ति प्रक्रमाद् दुःखवेदना ।।
न केवलं नरक एव दुःखवेदना मयाऽनुभूता किन्तु सर्वास्यपि गतिष्विति पुननिगमनद्वारेणाह-'सव्वे' त्यादिना, इह च 'असाता' दुःखरूपा निमेष:-अक्षिनिमीलनं तस्यान्तरंव्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि-तत्परिमाणमपि कालमिति शेषः 'यद्' इति यस्मात् 'साता' सुखरूपा नास्ति वेदना, तत्त्वतो वैषयिकसुखमसुखमेव, ईष्याद्यनेकदुःखानुविद्धत्वाद्विपाकदारुणत्वाच्च ।। सर्वस्य चास्य प्रकरणस्यायमाशयः-य एवमहं निमेषान्तरमात्रमपि कालं न सुखं लब्धवान् स कथं तत्त्वतः सुखोचितः सुकुमारो वेति शक्यते वक्तुं?, येन च नरकेष्वत्युष्णशीतादयो महावेदना अनेकशः सोढास्तस्य महाव्रतपालनं क्षुदादिसहनं वा कथमिव बाधाविधायि?, तत्त्वस्तस्य परमानन्दहेतुत्वात्, तत्प्रव्रज्यैव मया प्रतिपत्तव्येत्येकत्रिंशत्सूत्रावयवार्थः । तत्रैवमुक्त्योपरते-- मू. (६८९) तं वितऽम्मापियरो, छंदेणं पुत्त ! पव्वया।
नवरं पुन सामन्ने, दुक्खं निप्पडिकम्मया ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org