________________
उत्तराध्ययन-मूलसूत्रम्-२-१९/६८८ कृतैः 'दुष्करम्' इति दुस्सहम्॥ ___ 'उच्छ्व'त्ति वाशब्द उपमार्थे, तत इक्षुरिख आसरन्' आक्रन्दन् ‘स्वकर्मभिः' हिंसाधुपार्जितैर्ज्ञानावरणादिभिः ‘पापकर्मा' पापानुष्ठानः ।। 'कृवंती'त्ति कृजन, कोलसुणएहि ति सूकर-- स्वरूपधारिभिः श्यामैः शबलैश्च परमाधार्मिकविशेषैः ‘पातितो' भुवि 'फाटितो' जीर्णवस्त्रवत् 'छिन्नो' वृक्षवदुभयदंष्ट्रादिभिरिति गम्यते 'विस्फुरन्' इतस्ततश्चलन् 'अरसाहिति प्रहरणविशेपैः, पठ्यते च-'असीहिति असिभिः' खङ्गैः अत एव 'अतसी'त्यतसीपुष्पं तद्वर्णाभिः-- कृष्णाभिः 'पट्टिशैश्च' प्रहरणविशषैः 'छिन्त्रः द्विधाकृतः 'भिन्न' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः, दर्शनं पापानुष्ठानपरिहार्यताख्यापनार्थम्।। ___ 'लोहरथे' लोहमयशकटे 'जुत्तो'ति युजेरन्तर्भावितण्यर्थत्वाद्योजितः परमाधार्मिकैरिति सर्वत्र गम्यते, 'ज्वलति' दीप्यमाने, कदाचिद्दाहभीत्या ततो नश्येदपीत्याह-समिलोपलक्षितं युगं यस्मिन् स तथा तत्र समिलायुते वा, पाठान्तरतश्च ज्वलत्समिलायुगे, 'चोइओ'त्ति प्रेरितः 'तोत्रयाः' प्राजनकबन्धनविशेषैर्मघिट्टनाहननाध्यामिति गम्यते, 'रोज्झः' पशुविशेपः 'वा' समुच्चये भिन्नक्रमः 'यथा' औपम्ये ततो रोज्झवत्पातितो वा लकुटदिपिट्टनेनेति गम्यते, हुताशने ज्वलित, केत्याह-'चितासु' परमाधार्मिकनिर्मितेन्धनसञ्चयरूपासु 'महिसो विव'त्ति, पिव मिव विव वा इवार्थे' इति वचनात्, महिष इव 'दग्धः' भस्मसात्कृतः 'पक्वः' भटिवीकृतः 'पावितो'त्ति पापमस्यास्तीति भूम्नि मत्वर्थीयष्ठक पापिक: 'बलात्' हठात् संदंशः-प्रतीतस्तदाकृतीनि तुण्डानि-मुखानि येषां ते संदंशतुण्डास्तैः, तथा लोहवनिष्ठुरतया तुण्डानि येषां तैलॊहतुण्डेः 'पक्खिहि ति पक्षिभिर्डङ्कगृद्धैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात्, 'विलुप्तः' विविधं छिनाः॥
तस्य चैवं कदर्थ्यमानस्य तुडुत्पत्तो का वार्तेत्याह-तृष्णया क्लान्तो-ग्लानिमुपगतस्तृष्णाक्लान्त: ‘पाहंति'ति पास्यामीति चिन्तयन् ‘खुरधाराहि'न्ति क्षुरधाराभिरतिच्छेदकतया वैतरणीजलोम्मिभिरिति शेषः, विपाटितः, पाठान्तरतरश्च विपादितः-व्यापादित इत्यर्थः, उष्णेनवज्रवालुकादिसम्बन्धिना तापेनाभि-आभिमुख्येन तप्त उष्णाभितप्तः संप्राप्तोऽसयः- खगास्तद्वभेदकतया पत्राणि-पर्णानि यस्मिस्तदसिपत्रं, 'मुद्गरादिभिः' आयुधविशेषैर्गता-नष्टा आशा-परित्राणोचरमनोरथात्मिका यत्र तद्गताशं यथा भवत्येवं 'भग्गगत्तेहि'ति भग्नगात्रेण सता प्राप्तं दुःखमिति योगः, कल्पित: वस्त्रवत् खण्डितः कल्पनीभिः पाटीतः द्विधाकृतः ऊर्ध्वं छुरिकाभिश्छिन्नः खण्डितः क्षुरैरिति पश्चानुपूर्व्या सम्बन्धः, इत्थं च 'उक्कंतो य'ति उत्क्रान्तश्चायुःक्षये मृतश्चेत्यर्थः, पाठान्तरतो वोत्कृत:-त्वगपनयनेन प्रत्येकं वा क्षुरादिभिः कल्पितादीनां सम्बन्धः॥
'पाशैः कूटजालैः' प्रतीतैरेव बन्धनविशेषैः, 'अवशः' परवशः 'वाहितः' विप्रलब्धः, पठ्यते च-'ग्रहितो'त्ति गृहीतो बद्धो बन्धनेनरुद्धो बहिः प्रचारनिषेधनेन, अनयोर्विशेषणसमासः, 'विवाइतो'त्ति विपादितो विनाशित इत्यर्थः, तथा 'गलैः' बडिशर्मकरैः-मकराकारानुकारिभिः परमाधार्मिकै र्जालैश्च-तद्विरचितैर्विक्रियैरनयोर्द्वन्द्वः, समुहवाची वा जालशब्दस्तत्पुरुषश्च समासः, तथा 'उल्लिउ'त्ति आर्घत्वाद् उल्लिस्वितो गलैः पाटितो मकरैर्गृहीतश्च जालैः, यद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org