________________
अध्ययनं - १९, [ नि. ४१७]
पू. ( ६८७ )
महब्भयाओ भीमाओ, नरएसुवेइया मए ॥ जारिसा मानुसेलोए. ताया! दीसंति वेयणा । इत्तो अनंतगुणिया, नरएसुं दुक्खवेयणा ॥ सव्वभवेसु अस्साया, वेयणा वेइया मए । निमिसंतरमित्तपि, जं साया नत्थि वेयणा ॥
पू. ( ६८८ )
वृ. सूत्राण्येकत्रिंशम् प्रतीतान्येव, नवरं 'तद्' अनन्तरोक्तं 'बिंति 'ति वचनव्यत्ययात्तरो ब्रूते अम्बापितरौ मृगापुत्र इति प्रक्रमः, 'एव' मिति यथोक्तं भवद्भ्य् तथा 'एतत्' प्रव्रज्यादुष्करत्वं 'यथास्फुटं' सत्यतामनतिक्रान्तमवितथमिति यावत्, तथाऽपीहलोके 'निष्पिपासस्य' निःस :स्पृहस्य, इहलोकशब्देन च 'तात्स्थ्यात्तद्यप्रदेश' इतिकृत्वा ऐहलौकिकाः स्वजनधनसम्बन्धादयो गृह्यन्ते, 'नास्ति' न विद्यते ' किञ्चित्' अतिकष्टमपि शुभानुष्ठानमिति गम्यते, 'अपिः ' संभावने 'दुष्करं' दुरनुष्ठेयं, भोगादिस्पृहायामेवास्य दुष्करत्वादिति भावः ॥
नि:स्पृहताहेतुमाह-'शारीरे' त्यादिना, तत्राप्याद्यसूत्रद्वयेन सामान्येन संसारस्य दुःखरूपत्वमुक्तम्, इह च शरीरमानसयोर्भवाः शारीरमानस्यो वेदना: प्रस्तावादसातरूपा: 'दुक्ख भयाणि यत्ति दुःखोत्पादकानि राजविड्वरादिजनितानि (भयानि) दुःखभयानि, जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिश्चत्वारो - देवादिभवा अन्ता - अवयवा यस्यासौ चतुरन्तः - संसारः तत्र 'सोढानि' तदुत्थवेद नासहनेनानुभूतानि 'भीमानि' अतिदुःखजनकत्वेन रौद्राणि ||
३३
Jain Education International
-
शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढा यथेत्यादिभिः सूत्रैस्तदाह-यथा 'इह' मनुष्यलोकेऽग्निरुष्णोऽनुभूयते 'अत' इत्येवमनुभूयमानादनन्तगुणः 'तर्हि' ति तेपु, येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ततश्चोष्णानुभवात्मकत्वेन 'असात: ' दुःखरूपा वेदिता मया, पठन्ति च- 'इत्तो ऽनंतगुणा तर्हि' ति अत्र चातः: - इहत्याग्नेरनन्तगुणा नरकेषूष्णाच वेदना वेदिता मयेति योज्यम् ॥
For Private & Personal Use Only
-
तथा 'इदं' यदनुभूयते 'इह' मनुष्यलोके 'शीतं' तच्च माघादिसंभवं हिमकणानुषक्तमात्यन्तिकं परिगृह्यते, इहापि पठन्ति - 'एतोऽनंतगुणा तहिं' ति प्राग्वत्, 'कंदुकुम्भीषु' पाकभाजनविशेषरूपासु लोहादिमयीषु 'हुताशने' अग्नौ देवमायाकृते, महादवाग्निा संकाश:सदृशोऽतिदाहकतया महादवाग्निसङ्काशस्तस्मिन्, इह चान्यस्य दाहकतरस्यासंभादित्थमुपमाभिधानम्, अन्यथेह त्याग्नेरनन्तगुण एव तत्रोष्णपृथिव्यनुभाव उक्तः, 'मरौ' इति मरुवालुकानिवह इव तात्स्थ्यात्तद्यपदेशसंभवादन्तर्भूतेवार्थत्वाच्चात एव वज्रवालुकानदीसम्बन्धिपुलिनमपि वज्रवालुका तत्र, यद्वा वज्रवद्वालुका यस्मिंस्त (स्मिन् स त ) था तस्मिन्नरकप्रदेश इति गम्यते, ‘कदम्बवालुकयां च' तथैव कदम्बवालुकानदीपुलिने च महादवाग्निसङ्काश इति योज्यते । ‘ऊर्ध्वम्' उपरि वृक्षशाखादौ ' बद्धः' नियन्त्रितो माऽयमितो नङ्क्षीदित्यबान्धव इति च तत्राशरणतामाह, करपत्रं प्रतीतं क्रकचमपि तद्विशेषं एव 'खेदियं 'ति खित्रं खेदः क्लेशोऽनुभूतः क्षिपितं वा पापमिती गम्यते. 'कड्ढोकड्ढाहि' ति कर्पणापकर्षणैः परमाधार्मिक
S
29 3
www.jainelibrary.org