________________
उत्तराध्ययन-मूलसूत्रम्-२-१९/६८९ - वृ. 'तं' मृगापुत्रं ब्रुतोऽम्बापितरौ छन्द:-अभिप्रायस्तेन स्वकीयेनेति गम्यते, किमुक्तं भवती?-यथाऽभिरुचित्तं पुत्र! 'प्रव्रज' प्रजितो भव, 'नवरम्' इति केवलं 'पुनः' विशेषणे 'श्रामण्ये' श्रमणभावे 'दुःखं' दुःखहेतु: 'निष्प्रतिकर्मता' कथञ्चिद्रोगोत्पत्तौ चिकित्साऽ-- करणरूपेति सूत्रार्थः । इत्थं जनकाभ्यामुक्तेमू.(६९०) सो बितऽम्मापियरो, एवमेयं जहाफुडं।
परिकम्मको कुणई, अरने मिगपक्खिणं?" मू. (६९१) एगभूओ अरने वा, जहा ऊ चरई मिगो।
एवं धम्मचरिस्सामि, संजमेण तवेण य॥ मू.( ६९२) जया मिगस्स आयंको, महारण्णमि जायई।
अच्छतं रुक्खमूलभि, को णं ताहे चिगिच्छई?॥ मू.(६९३) कोवा से ओसह देइ, को वा से पुच्छई सुह।
को से भत्तं व पानं वा, आहरितु पणामई? || मू.(६९४) जया य से सुही होइ, तया गच्छइ गोअरं।
भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य॥ मू. (६९५) खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि य।
मिगचारियं चरित्ता णं, गच्छई मिगचारियं । मू. (६१६) एवं समुट्ठिए भिक्खू, एवमेव अनेगए।
मिगचारियं चरित्ता णं, उड्डं पक्कमई दिसं॥ मू.(९६७) जहा मिए एग अनेगचारी, अनेगवासे धुवगोअरे ।
एवं मुनी गोयरियं पविटे, नो हिलए नोवि य खिसइजा ।। वृ.'स' इति युवराज: 'बिन्ति'त्ति आर्पत्वाद् ब्रूतेऽम्बापितरौ, यथैतन्निष्प्रतिकर्मतया दुःखरूपत्वं युवाभ्यामुक्तं यथास्फुटमिति प्राग्वत्, परं परिभाव्यतामिदं-परिकर्म रोगोत्पतौ चिकित्सारूपं क: करोति?, न कश्चिदित्यर्थः, क्व?-अरण्ये, केषां?-मृगपक्षिणाम्, अथचैतेऽपि जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः, यतश्चैवमतः ‘एग'त्यादि सर्वं स्पष्टमेव, नवरम् ‘एकभूतः' एकत्त्वं प्राप्तोऽरण्ये, 'वे'ति वा पूरणे 'जहा उत्ति यथैव एवमित्येकभूतः संयमेन तपसा चेति धर्मचरणहेतुः, यदा आतङ्कः' आशुघाती रोगो, 'महारण्य' इति महाग्रहणममहति शरण्येऽपि कश्चित्कदाचित्पश्येत् दृष्ट्वा च कृपातश्चिकित्सेदपि, श्रूयते हि केनचिद्भिषजा व्याघ्रस्य चक्षुरुदघाटितमटव्यामिति, वृक्षमूल इति तथाविधावासाभावदर्शनं, 'को 'ति अवां सन्धिलोपौ बहुल' मितिवचनादजलोपे क एनं 'तदा' आतङ्कोत्पत्तिकाले चिकित्सति-औषधाधुपदेशेन नीरोगं कुरुते ?, न कश्चिदित्यर्थः, चिकित्सके चासति को वेति वाशब्दः समुच्चये औषधं ददातीत्येवमुत्तरोत्तराप्राप्तिरुपदर्शनीया।। आहारितु'त्ति आहत्य 'प्रणामयेत्' अर्पयेत्, 'अः पणाम' इति वचनात्।। __ कथं तर्हि तस्य निर्वहणमित्याह-प्रदा स सुखी भवति, स्वत एव रोगाभाव इति गम्यते, 'गच्छति'याति गौरिव परिचितेतरमभूभागपरिभावनारहितत्वेन चरणं-भ्रमणमस्मिन्निति गोचरस्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org