________________
१७
अध्ययनं-१८,[नि. ४०४ ] प्रस्तावान्महावीर एव, 'परनिर्वृत्त:' कषायानलविध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् क्षायिकज्ञानचारित्राभ्यां संपन्नो-युक्तो विद्याचरणसंपन्नोऽत एव'सत्यः' सत्यवाक, तथा सत्यः-अवितथस्तात्त्विकत्वेन परे-भावशत्रवस्तेषामाक्रमणं आक्रमः-अभिभवो यस्यासौ सत्यपराक्रम इति सूत्रार्थः । तेषां च फलमाह-- मू. (५८४) पडंति नरए घोरे, जे नरा पावकारिणो।
दिव्वं च गई गच्छति, चरित्ता धम्ममारियं ।। वृ. 'पतन्ति' गच्छन्ति 'नरके' सीमन्तकादौ 'घोरे' नित्यान्धकारादिना भयानके ये नराः उपलक्षणत्वात्स्त्र्यादयो वा पातयति नरकादिपुजन्तुमिति पापं तच्च हिंसाधनेकधा, इह त्वसत्प्ररूपणैव, तत्कर्तुम्-अनुष्ठातुं शीलमषामिति पापकारिणः, ये त्वेवंविधान भवन्ति ते किमित्याह'दिव्यां च गति' देवलोकगतति, चशब्दः पुनरर्थे, स च पूर्वेभ्यो विशेषद्योतकः, 'गच्छन्ति' यान्ति 'चरित्वा' आसेव्य धर्म:- श्रुतधर्मादिरनेकविधः, इह च सत्प्ररूपणारूपः श्रुतधर्म एव तं, आर्य-प्राग्वत्, तदयमभिप्राय:-असत्प्ररूपणापरिहारेण सत्प्ररूपणापरणैव च भवता भवितव्यमिति सूत्रार्थः ।। कथं पुनरमी पापकारिणा इत्याहमू. (५८५) मायावुइयमेयं तु, मुसा भासा निरत्थिया।
संजममानोऽवि अहं, वसामि इरियामि य॥ व. मायया-शाठ्यन वुइयंति-उक्तं मायोक्तम् 'एतत्' यदनन्तरं क्रियादिवादिभिरुक्तं. 'तुः' एवकारार्थो भिन्नक्रमश्च मायोक्तमेव, अतश्चैतत् 'मृषा' अलीका 'भाषा' उक्तिः 'निरर्थिका' सम्यगभिधेयशून्या, तत एव च 'संजममानोऽवि'त्ति 'अपिः' एवकारार्थस्ततः संयच्छन्नेवउपरमव तदुक्त्याकर्णनादितः 'अहम्' इत्यात्मनिर्देशे विशेषतस्तत्स्थिरीकरणार्थम्, उक्तं हि-"ठियतो ठावए परं"ति, 'वसामि' तिष्ठामि उपाश्रय इति शेषः, 'इरियामि यत्ति ईर चगच्छामि च गोचरचर्यादिष्विति सूत्रार्थः ।। इदमपि सूत्रं प्रायो न दृश्यते। कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसीत्याह-अनन्तरसूत्राभावे च यदुक्तं चतुभिः स्थानैर्मयज्ञाः किंप्रभाषन्ते इति, तत्कुत इत्याहमू.(५८६) सव्वे ते बिइया मज्झं, मिच्छादिट्ठी अनारिया।
विज्जमाणे परे लोए, सम्मं जाणामि अप्पगं। वृ. सर्वे' निरवशेपाः 'ते' क्रियादिवादिनः 'विदिताः' ज्ञाता मम, यथाऽमी 'मिच्छदिद्धि'त्ति मिथ्या-विपरीता परलोकात्माद्यपलापित्वेन दृष्टि:-बुद्धिरेषामिति मिथ्यादृष्टयः तत एव, 'अनार्या' अनार्यकर्मप्रवृत्ताः, कथं पुनस्त एवंविधास्ते विदिता इत्याह-'विद्यमाने' सति 'परलोके' अन्यजन्मनि 'सम्यग्' अविपरीतं 'जानामि' अवगच्छामि ‘अप्पगं'ति आत्मानं, ततः परलोकात्मनोः सम्यग्वेदनात् ममैवंविधत्वेन विदितास्ततोऽहं तदुक्त्याकर्णनादितः संयच्छामि किंप्रभाषकाचैत इति सूत्रार्थः । कथं पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याहमू. (५८७) अहमासी महापाने, जुइमं वरिससओवमे।
जा सा पाली महापाली, दिव्वा वरिससओवमा॥ 29/20
जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org