________________
उत्तराध्ययन-मूलसूत्रम्-२-१८/५८२ मुक्त्यभावाद्यनेकदोषापत्तिश्च, शरीरान्यत्वेतु शरीरच्छेदादौ तस्य वेदनाऽभावप्रसङ्गः, तस्मादवक्तव्य एवेति, अक्रियावादित्यं चैषां कथञ्चिद्भेदाभेदलक्षणप्रकारान्तराभावेन तदभावस्यैवाशिष्यमाणत्वात्, येऽप्युत्पत्त्यनन्तरमात्मनः प्रलयमिच्छन्ति तेषामपि तदस्तित्वाभ्युपगमेऽप्यनुपचरितपरलोकाद्यसम्भवात् तत्त्वतस्तदसत्त्वमेवेत्यक्रियावादित्वम्, उक्तं हि वाचकैः-- "ये पुनरिहाक्रियावादिनस्तेषामात्मैव नास्ति, न चावक्तव्यः शरीरेण सहैकत्वान्यत्वे प्रति, उत्पत्त्यनन्तरप्रलयस्वाभावको वा, तस्मिन्ननिर्णिक्ते च कर्तृत्वादिविशेषमूढा एवे"ति, अमीषा तु विचाराक्षमत्वमात्माऽस्तित्वस्य प्राक्प्रत्यक्षानुमानलक्षणप्रमाणद्वयसमधिगम्यत्वेन साधनात्, तस्य च शरीरात्कथञ्चिद्भिन्नाभिन्नरूपतया तत्र तत्र वक्तव्ये (व्यत्वे)न । स्थापितत्वात्, क्षणिकपक्षस्य तु सामुच्छेदिकनिह्नववक्तव्यतायामेवोन्मूलितत्वादिति २।
विनयवादिनो विनयादेव मुक्तिमिच्छन्ति, यत उक्तं-"वैनयिकवादिनो नाम येषां सुरासुरनृपतपस्विकरितुरगहरिणगोमहिष्यजाविकश्वशृगालजलचरकपोतकाकोलूकचटकप्रभृतिभ्यो नमस्कारकरणात् क्लेशनाशोऽभिप्रेतो, विनयाच्छेयो भवति नान्यथेत्यध्यवसिताः" एतेऽपि न विचारसहिष्णवो, न हि विनयमात्रादिहापि विशिष्टानुष्ठानविकलादभिलषितार्थावाप्तिरवलोक्यते, नापि चैषां विनययाहत्वं, येन पारलौकिकश्रेयोहेतुता भवेत्, तथाहि-लोकसमयवेदेषु गुणाभ्यधिकस्यैव विनयाहत्वमिति प्रसिद्धिः, गुणास्तु तत्त्वतो ज्ञानध्यानानुष्ठानात्मका एव, न सुरादीनामज्ञानाश्रवाविरमणादिदोषदूषितानामेतेष्वन्यतरस्यापि गुणस्य सम्भव इति कथं यदृच्छाया विधीयमानस्य तस्य श्रेयोहेतुतेनि ३।। ___ अज्ञानवादिनास्त्वाहुः-यथेदं जगत् कैश्चिद् ब्रह्मादिविवर्त्त इष्यते, अन्यैः प्रकृतिपुरुषात्मकमपरैर्द्रव्यादिषडेभेदं तदपरैश्चतुरार्यसत्यात्मकमितरैर्विज्ञानमयमन्यैस्तु शून्यमेवेत्यनेकधा भिन्नाः पन्थानः, तथाऽऽत्माऽपि नित्यानित्यादिभेदतोऽनेकधैवोच्यते, तत्को ह्येतद्वेद किं चानेन ज्ञातेन?,अपवर्गं प्रत्यनुपयोगित्वात् ज्ञानस्य, केवलं कष्टं तप एवानुष्ठेयं, न हि कष्टं विनेष्टसिद्धिः, तथा चाह-'अज्ञानिका नाम येषामियमुपधृतिः, यथेह ज्ञानाधिगमप्रयासोऽपवर्गं प्रति अकिञ्चित्करो, धोरैर्वततपोभिरपवर्गोऽवाप्यते' इति ।
विचारासहत्वं चैषां विज्ञानरहितस्य महतोऽपि कष्टस्य तिर्यग्नारकादीनामिवापवर्गं प्रत्यहेतुत्वात्, तदन्तरेण व्रततपोपसर्गादीनामपि स्वरूपापरिज्ञानतः क्वचित्प्रवृत्त्यसम्भवादिति । एषां च क्रियावादिनामुत्तरोत्तरभेदतोऽनेकविधत्वं, उक्तं वाचकैः-"एषां मौलेषु चतुर्यु कल्पेष्ववस्थितेषु तद्भेदाः सुबहवोऽवनिरुहशाखाप्रशाखानिकरवदवगन्तव्याः", तत्र तावच्छतमशीतं क्रियावादिनां, अक्रियावादिनश्च चतुरशीतिसङ्खयाः, अज्ञानिकाः सप्तषष्टिविधाः, वैनयिकवादिनो द्वात्रिंशत्, एवं त्रिषष्ट्यधिकशतत्रयं, सर्वेऽपि चामी विचाराक्षमत्वात्कुत्सितं प्रभाषन्ते इति स्थितमिति सूत्रार्थः । न चैतत्स्वाभिप्रायेणैवोच्यते, किन्तुमू.(५८३) इह पाउकरे बुद्धे, नायए परिनिव्वुडे।
विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे। वृ. 'इती'त्येतत् क्रियादिवादिनः किं प्रभाषन्ते? इत्येवंरूपं पाउकरे'त्ति प्रादुरकार्षीत्प्रकटितवान् 'बुद्धः' अवगततत्त्वः सन् ज्ञात एव ज्ञातक:-जगत्प्रतीतः क्षत्रियो वा, स चेह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org