________________
१८
उत्तराध्ययन-मूलसूत्रम्-२-१८/५८७ वृ. 'अहमासि'त्ति अहमभूवं 'महाप्राणे' महाप्राणनाम्नि ब्रह्मलोकविमाने 'द्युतिमान्' दीप्तिमान् ‘वरिससतोवमे'त्ति वर्षशतजीविना उपमा-दृष्टान्तो यस्यासौ वर्षशतोपमो मयूरव्यंसकादित्वात्समासः, ततोऽयमर्थः-यथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते, एवमहमपि तत्र परिपूर्णायुरभूवं, तथाहि-या सा पालिरिव पालि:-जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली' सागरोपमप्रमाणा, तस्या एव महत्त्वात्, दिवि भवा दिव्या वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, यथा हि वर्षशतमिह परमायुः तथा तत्र महापाली, उत्कृष्टतोऽपि हि तत्र सागरोपमैरेवायुरुपनीयते, न तूत्सपिण्यादिभिः, अथवा
"योजनं विस्तृतः पल्यस्तथा योजनमुत्सृतः । सप्तरात्रप्ररूढाणां, केशाग्राणां स पूरितः ॥१॥
ततो वर्षशते पूर्णे, एकैकं केशमुद्धरेत्।
क्षीयते येन कालेन, तत्पल्योपममुच्यते॥२॥" इति वचनाद्वर्षशतैः केशोद्धारहेतुभिरुपया अर्थात्पल्यविषया यस्या सा वर्षशतोपमा, द्विविधाऽपिस्थितिः, सागरोपमस्यापि पल्योपमनिष्पाद्यत्वात्, तत्र मम महापाली दिव्या भवस्थितिरासीदित्युपस्कारः, अतश्चाहं वर्षशतोपमायुरभूवमिति भावः । मू. (५८८) से चुए बंभलोगाओ, मानुस्सं भवमागए।
अप्पणो य परेर्सि च, आउं जाणे जहा तहा।। वृ. 'से' इत्यथ स्थितिपरिपालनादनन्तरं 'च्युतः' भ्रष्टः 'ब्रह्मलोकात्' पञ्चमकल्पात् 'मानुष्यं' मनुष्यसम्बन्धिनं भवं' जन्म आगत' आयातः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्यायातिशयान्तरमाह-आत्मनश्च परेषां वा आयुः' जीवितं जाने' अवबुध्ये 'यथा' येन प्रकारेण स्थितिमिति गम्यते 'तथा' तेनैव प्रकारेण न त्वन्यथेत्यभिप्रायः, इति सूत्रद्वयार्थः ॥ इत्थं प्रसङ्गतः परितोषतश्चापृष्टमपि स्ववृत्तान्तमावेद्योपदेष्टुमाहमू.(५८९) नाना रुइं च छंदं च, परिवज्जिज्ज संजओ।
अनट्ठा जे स सव्वत्था, इह विज्जामनुसंचरे॥ वृ. 'नाने' त्यनेकधा 'रुचि च' प्रक्रमाक्रियावाद्यादिमतविषयमभिलाषं 'छन्दश्च' स्वमतिकल्पितमभिप्रायम्, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् परित्यजेत् 'संयतः' यतिः। अनर्थाः' अनर्थहेतवो ये च 'सर्वार्थाः' अशेषहिंसादयो गम्यमानत्वात्तान् वर्जयेदिति सम्बन्धः, यद्वा 'सव्वत्थे' त्याकारस्यालाक्षणिकत्वासर्वत्र क्षेत्रादावना इति-निष्प्रयोजना ये च व्यापारा इति गम्यते, तान् परिवर्जयेत्, 'इती' त्येवंरूपां 'विद्यां' सम्यग्ज्ञानरूपामन्वितिलक्षीकृत्य 'संचरेः' त्वं सम्यक् सयमाध्वनि याया इति सूत्रार्थः ॥ अन्यच्चमू. (५९०) पडिकमामि पसिणाणं, परमंतेहि वा पुनो।
. अहो उडिमो अहोरायं, इह विज्जा तवं चेर।। वृ. प्रतीपं कामामि प्रतिक्रामामि-प्रतिनिवर्ते, केभ्यः ?-'पसिणाणं'ति सुब्ब्यत्ययात् 'प्रश्नेभ्य:' शुभाशुभसूचकेभ्योउंगुष्ठप्रश्नादिभ्यः, अन्येभ्यो वा साधिकरणेभ्यः, तथा परेगृहस्थास्तेषां मन्त्राः परमन्त्रा:-तत्कार्यालोचनरूपास्तेभ्यः, 'वा' समुच्चये 'पुनः' विशेषणे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org