________________
अध्ययनं-१८,[ नि. ४०१] मू. (५७३) दाराणि य सुया चेव, मित्ता य तह बंधवा।
जीवंतमनुजीवंति, मयं नानुव्वयंति य॥ वृ. तथा 'दाराश्च' कलत्राणि प्राकृतत्वान्नया निर्देशः, सुताश्चैव 'मित्राणि च' प्रतीतान्येव, तथा 'बान्धवाः' स्वजना: जीवन्तम् 'अनुजीवन्ति' तदुपार्जितवित्तायुमभोगत उपजीवन्ति, मृतं 'नानुव्वयंति य'त्ति चशब्दस्यापिशब्दार्थत्वादनुव्रजन्त्यति न, किं पुनः सह यास्यन्तीति, तदनेन दारादीनामपि कृतघ्नतया न तेष्वास्थां विधाय धर्मे उदासितव्यमित्युक्तमिति, इदं च सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातं, प्रत्यन्तरेषु च ददृयत इत्यस्माभिरुनीतम् ।। पुनस्तत्प्रतिबन्धनिराकरणायाहमू. (५७४) नोहरंति मयं पुत्ता. पियरं परमदुक्खिया।
पियरो अतहा पुत्ते, बंधू रायं ! तवं चरे।। वृ. 'नीहरंति'त्ति निस्सारयन्ति 'मृतम्' इति गयायुपं 'पुत्राः' सुताः 'पितरं' जनकं 'परमदुःखिता:' अतिशयसञ्जातदुःखा अपि, किं पुनर्ये न तथा दु:खभाज इति भावः, पितरोऽपि तथा पुत्रान्, 'बंधु'त्ति बन्धवश्च बन्धूनिति शेषः, अतश्च किं कृत्यमित्याह-राजन्! तप उपलक्षणत्वाद्दानादि 'चरे:' आसेवस्वेति ।। अपरञ्चमू.(५७५) तओ तेनऽज्जिए दब्बे, दारे य परिरक्खिए।
कोलंतऽन्ने नरा रायं!, हद्वतुट्ठमलंकिया। वृ. 'ततो'त्ति मृतानिःसारणादनन्तरं 'तेन' इति मित्रपित्रादिना 'अर्जिते' विढपिते 'द्रव्ये' वित्ते 'दारेषु च' कलत्रषु च 'परिरक्षितेषु' सर्वापायपरिपालितेषु, उभयत्रार्षत्वादेकवचनं, 'क्रीडन्ति' विलसन्ति तेनैव वित्तेन दारैश्चेति गम्यते 'अन्ये' अपरे राजन् ! 'हट्टतुट्ठमलंकिय'त्ति हृष्टा:-बहिः पुलकादिमन्तः तुष्टः-आन्तरप्रीतिभाज: 'अलंकृताः' विभूषिताः, यत ईदृशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति मध्यदीपकत्वादनन्तरसूत्रोक्तेन सम्बन्धः ॥ मृतस्य च वृत्तान्त इत्याहमू. (५७६) तेनावि जं.कयं कम्म, सुहं वा जइ वा दुहं।
कम्मुणा तेन संजुत्तो, गच्छई उ परं भवं। वृ. 'तेनापि' मृतेन यत् 'कृतम्' अनुष्ठितं कर्म 'शुभं वा' पुण्डप्रकृतिरूपं, यद्वा 'सुखं वा' सुखहेतुः 'यदिवे'त्यथवा 'दुःखं' दु:खहेतुः पापप्रकृत्यात्मकमित्यर्थः । कर्मणा तेन सुखहेतुना दुःखहेतुना वा, उत्तरत्र तुशब्दस्यैवकार्थत्वाद् भिन्नक्रमत्वाच्च तेनैव, न तु दुःखपरिरक्षितेनापि द्रव्यादिना संयुक्तः' सहितः 'गच्छति' याति परम्' अन्यं भवं' जन्म, यतश्च शुभाशुभयोरेवानुयायिता तत: शुभहेतुं तप एव चरेरिति भाव इति सूत्रसप्तकार्थः ।।
ततस्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याहमू.(५७७) सोऊण तस्स सो धम्म, अनगारस्स अंतिए।
महया संवेगनिव्वेयं, समावन्नो नराहिवो।। मू.( ५७८) संजमो चइउंरजं, निक्खंतो जिनसासने ।
गद्दभालिस्स भगवओ, अनगारस्स अंतिए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org