________________
उत्तराध्ययन-मूलसूत्रम्-२-१८/५६९ नि.[३९९] वीसज्जिऊण आसं अह अनगारस्स एइ सो पासं।
विनएण वंदिऊणं अवराहं ते खमावेइ ।। नि.[ ४००] अह मोनमस्सिओ सो अनगारो नवरई न वाहरइ।
तस्स तवतेयभीओ इणमटुं सो उदाहरइ॥ नि.[ ४०१] कंपिल्लपुराहिवई नामेणं संजओ अहं राया।
तुज्झ सरणागओऽम्हि निद्दहिहा मा मि तेएणं ।। वृ. गाथाचतुष्टयं स्पष्टमेव, नवरं तं पासिय 'संभमागतो'त्ति मुनिरत्र दृश्यत इत्यसावपि मया विद्धो भविष्यतीत्याकुलत्वमापन्नो, 'भणतिच' वक्ति च 'हा' इति खेदे यथेदानीं 'इसिवज्झाए'त्ति ऋपिहत्यया मनागपि लिप्तोऽहं-स्वल्पेनैवनस्पृष्टः 'तुब्भ'त्ति तव 'शरणागतोऽस्मि' त्वामेव शरणम्-आश्रयं प्रतिपन्नोऽस्मि, ततश्च निर्धाक्षी; 'मा' निषेधे 'मि' इति मां 'तेजसा' तपोजननितेनेति गम्यते, इति गाथाचतुष्टयार्थः । इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाहमू.(५७०) अभओ पत्थिवा! तुझं, अभयदाया भवाहिय।
अनिच्चे जीवलोगमि, किं हिंसाए पसज्जसि? ।। वृ. 'अभओ'त्ति अभयं-भयाभावः 'पार्थिव!' नृपते ! आकारोऽलाक्षणिकः, कस्य?'तुब्भं"ति तव, न कश्चित्त्वां दहतीति भावः, इत्थं समाश्वास्योपदेशमाह-'अभयदाता च' प्राणिनां वाणकर्ता भवाहि य'त्ति भव, यथा हि भवतो मृत्युभयमेवमन्येषामपीति भावः, चशब्दो योजित एव, अममेवाएं सहेतुकं व्यतिरेकद्वारेणाह-'अनित्ये' अशाश्वते 'जीवलोके' प्राणिगणे, किमिति परिप्रश्ने 'हिंसायां' प्राणिवधरूपायां 'प्रसजसि' अभिष्वक्तो भवसि?, जीवलोकस्य ह्यनित्यत्वे भवानप्यनित्यस्तत्किमिति-केन हेतुना स्वल्पदिनकृते पापमित्थमुपार्जयसि?, नैवेदमुचितमिति 'भावः । इत्थं हिंसात्यागमुपदिश्य राज्यपरित्यागोपदेशमाह- . मू. (५७१) जया सव्वं परिच्चज्ज, गंतव्यमवसस्स ते।
अनिच्चे जीवलोगमि, किं रजमि पसज्जमि?॥ वृ. यदा 'सर्व' कोशान्तःपुरादि परित्यज्य-इहैव विमुच्य गन्तव्यं भवान्तरमिति शेषः, तदपि न स्ववशस्य किन्तु अवशस्य-अस्वतन्त्रस्य 'ते' तव, क्व सति?-अनित्ये जीवलोके, ततः कि 'राज्ये' नृपतित्वे प्रसजसि?, राज्यपरित्याग एव युक्त इति भावः, पाठान्तरतश्च किं हिंसायां प्रसजसि?, इह च पुनर्वचनमादरातिशयख्यापनार्थमिति न पुनरुक्ता ।
जीवलोकानित्यत्वमेव भावयितुमाहमू.(५७२) जीवियं चेव रूवं च, विज्जुसंपायचंचलं।
जत्थतं मुझसी रायं!, पिच्चत्थं नावबुज्झसी। वृ.'जीवितम्' आयुः 'च:' समुच्चये 'एवे'ति पूरणे 'रूपंच' पिशितादिपुष्टस्य शरीरशोभात्मकं विद्युतः संपातः-चलनचमत्कारो विद्युत्सम्पातस्तद्वच्चञ्चलम्-अतीवास्थिरं विद्युत्सम्पातचञ्चलं 'यत्र' जीविते रूपे च तंति त्वं 'मुह्यसि' मोहं विधत्से, मूढश्च हिंसादौ प्रसजसीति भावः, 'राजन्' नृपते! 'प्रेत्यार्थ' परलोकप्रयोजनं नावबुध्यसे, किमुक्तं भवति?- जानास्यपि न किं, पुनस्तत्करणमिति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org