SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१८,[नि. ३९७ ] वृ.अहेति गाथा व्याख्यातप्रायैव, नवरं नाम्ना' अभिधानेन गर्दभालि-गर्दभालिनामेत्यर्थः, 'झविय'त्ति क्षपिता दोषा:-कर्मा श्रवहेतुभूता हिंसादयो येन स तथा॥ पुनस्तत्र यदभूत्तदाहमू.(५६५) अह आसगओ राया, खिप्पमागम्म सो तर्हि। हए मिए उ पासित्ता, अनगारं तत्थ पासई॥ वृ. अथ' अनन्तरम् 'अश्वगतः' तुरगारूढो राजा 'क्षिप्रं' शीघ्रमागत्य 'स' इति सञ्जयनामा 'तस्मिन्' यत्र मण्डपे स भगवान् ध्यायति, 'हतान् विनाशितान् मृगान्तुशब्द एवकारार्थस्ततो मृगानेव, न पुनरनगारमित्यर्थः, 'पासित्त'त्ति दृष्ट्वा 'अनगारं' साधुं'तत्र' इति तस्मिन्नेव स्थाने पश्यतीति सूत्रार्थः । ततः किमसावकार्षीदित्याहमू.(५६६) अह राया तत्थ संभंतो, अनगारो मनाऽऽहओ। - मए उ मंदपुग्नेणं, रसगिद्धेण घंतुणा ।। वृ.अथ राजा 'तत्रे'तो तदर्शने सति संभ्रान्तः' भयव्याकुलो, यथाऽनगारो-मुनिर्मनागितिस्तोकेनैव आहतः' विनाशितः, तदासन्नमृगहननादित्यभिप्रायः, मया तु मन्दपुण्येन 'रसगृद्धेन' रसमूछितेन ‘घंतुण'त्ति घातुकेन हनन शीलेनेत्यर्थः । ततश्चमू. (५६७) आसं विसज्जइत्ताणं, अनगारस्स सो निवो। विनएणं वंदई पाए, भगवं! इत्थ मे खमे ।। वृ.'अश्वं' तुरगं 'विसृज्य' विमुच्य णं' प्राग्वत्, 'अनगारस्य' उक्तस्यैव सः' सञ्जयनामा नृपः 'विनयेन' उचितप्रतिपत्तिरूपेण 'वन्दते' स्तौति 'पादौ' चरणौ, अत्यादरख्यापकं चैतत् 'पादावपि तस्य भगवतः स्तवनीयाविति, वक्ति च-यथा भगवन् ! 'अत्र' एतस्मिन् मृगव्ये, मम अपराधमिति शेषः, 'क्षमस्व' सहस्व ।। मू. (५६८) अह मोनेन सो भगवं; अनगारो झाणमस्सिओ। रायाणं न पडिमतेइ, तओ राया भयद्दओ।।। वृ.'अर्थ' इत्यनन्तरं 'मौनेन' वाग्निरोधात्मकेन 'सो'त्तिस गर्दभालिनामा भगवान् अनगारः 'ध्यान' धर्मध्यानम 'आश्रितः स्थितः 'राजान' नपं 'न प्रतिमन्त्रयते' न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, 'ततः' तत्प्रतिवचनाभावतोऽवश्यमयं क्रुद्ध इति न किमपि मां प्रभाषते इति राजा 'भयद्रुतः' अतीव भयत्रस्तो, यथा न ज्ञायते किमसौ क्रुद्धः करिष्यतीति, उक्तवांश्च यथामू.(५६९) संजओ अहमस्सीति, भगवं! वाहिराहि मे। कुद्धे तेएण अनगारे, दहिज्जा नरकोडिओ॥ वृ.'सञ्जयः सञ्जयनामा राजाऽहमस्मि, मा भूत्रीच एवायमिति सुतरां कोप इत्येतदभिधानमिति, 'इति' अस्माद्धेतोर्भगवन् ! 'वाहराहि'त्ति व्याहर-संभाषय 'मे' इति सुब्ब्यत्ययान्माम्, अथापि स्यात्-किमेवं भवान् भयद्रुत इत्याह-'क्रुद्धः कुपितः 'तेजसा' तपोमाहात्म्यजनितेन तेजोलेश्यादिना 'अनगार:' मुनिः 'दहेत्' भस्मसात्यकुर्यात् नरकोटी:, आस्तां शतं सहस्रं वेति, अतोऽत्यन्तभयद्रुतोऽहमिति सूत्रचतुष्टयार्थः । इदमेव व्यक्तीकर्तुमाह नियुक्तिकृत्नि.[३९८] अह आसगओ राया तं पासिअसंभमागओ तत्थ । भणइ अ हा जह इण्हि इसिवज्झाए मना लित्तो।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy