________________
उत्तराध्ययन-मूलसूत्रम्-२-१८/५७८ वृ.' श्रुत्वा' आकर्ण्य तस्य' इत्यनगरास्य 'स' इति सञ्जयाभिधानो राजा 'धर्मम्' उक्तरूपम् 'अनगारस्य' भिक्षोः 'आन्तिके' समीपे 'महय'त्ति महता आदरेणेति शेषः, सुब्यत्ययेन वा महत्, 'संवेगनिर्वेद' तत्र संवेगो-मोक्षाभिलाषो निर्वेद:-संसारोद्विग्नता 'समापन्नः' प्राप्तः 'नराधिप:' राजा 'सञ्जयः सञ्जयनामा 'चइउं त्यक्त्वा राज्यं' राष्ट्राधिपत्यरूपं 'निष्क्रान्तः' प्रवजित: 'जिनशासने' अर्हईशने, न तु सगुतादिदेशितेऽसद्दर्शने एवेति भावः, 'गर्दभाले:' गर्दभालिनाम्नो भगवतोऽनगारस्यान्तिक इति सूत्रद्वयार्थः। सूत्रनवकोक्तमेवार्थं स्पष्टीयतुमाह नि.[४०२] अभयं तुज्झ नरवई ! जलबुब्बुअसंनिभे अमानुस्से।
कि हिंसाइ पसज्जसि जाणतो अप्पणो दक्खं? ॥ नि.[४०३] सव्वमिणं चइऊणं अवस्स जया य होइ गंतव्वं ।
किं भोगेसु पसज्जसि?, किपागफलोवमनिभेसुं॥ नि.[ ४०४] सोऊण य सो धम्मं तस्सऽनगारस्स अंतिए राया।
अनगारो पव्वइओ रज्जं चइडंगुणसमग्गं ।।। वृ.व्याख्यातप्रायमेव, नवरं 'अप्पणो दुक्खं ति आत्मनो दुःखमिति-दुःखजनकं मरणमिति शेषः, किपागफलोपमणिभेसु'न्ति किम्पाकफलोपमा निभा-छाया येषां ते तथा आपातमधुरत्व-परिणतिदारुणत्वाभ्यां, तथा अनगारः' अविद्यमानगृहो, जात इति शेषः, सच शाक्यादिरपि संभवेदत आह-'पववइओ'त्ति प्रकर्षण-विषयाभिष्वङ्गादिपरिहाररूपेण वजितो-निष्क्रान्तः प्रव्रजितो, भावभिक्षुरितियावत्, तथा गुणाः-कामगुणा मनोज्ञशब्दादय आज्ञैश्वर्यादयो वा तैः समग्रं-सम्पूर्ण गुणसमग्रमिति गाथात्रयार्थः ।।
सचैवं गृहीतप्रव्रज्योऽधिगतहेयोपादेयविभागो दशविधचक्रवालसाचाचारीरतश्चानियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत्तदाहमू. (५७९) चिच्चा टुं पव्वईओ, खत्तिओ परिभासई।
जहा ते दीसई रूवं, पसन्नं ते तहा मनो। वृ. त्यक्त्वा 'राष्टं ग्रामनगरादिसमुदायं प्रव्रजितः' प्रतिपन्नदोक्षः 'क्षत्रियः' क्षत्रजातिरनिर्दिष्टनामा परिभाषते, सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युतः क्षत्रियकुलेऽजनि, तत्र च कुतश्चित्तथाविध निमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान्, गृहीतप्रव्रज्यश्च विहरन् सञ्जयमुनिं दृष्ट्वा तद्विमार्थमिदमुक्तवान्-यथा ते 'दृश्यते' अवलोक्यते 'रूपम्' आकृतिः प्रसन्न' विकाररहितं 'ते' तव तथा' तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः, किं तत्? -'मनः' चित्तं, न ह्यन्तः कलुषतायां बहिरप्येवं प्रसन्नतासम्भवः, मू.(५८०) किनामे किंगुत्ते कस्सद्वाए व माहणे?,
कहं पडियरसी बुद्धे?, कहं विनीयत्ति वुच्चसि?॥ वृ.तथा 'किंनामा' किमभिधानः 'किंगोत्र: किमन्वयः 'कस्सट्टाए वत्ति कस्मैवा' अर्थाय' प्रयोजनाय 'माहणे'त्ति मा वधीत्येवंरूपं मनो वाक् क्रिया च यस्यासौ माहनः, सर्वे धातवः पचादिषु दृश्यन्त इति वचनात्पचादित्वादच्, स चैवंविधः प्रवजित एव संभवत्यतः किं वा प्रयोजनमुद्दिश्य प्रवजितः, 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे, कान् ? -'बुद्धान्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org