________________
अध्ययनं - १७, [ नि. ३९१]
सीयालत्ताए विहरति "त्ति, स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वक्ति तदाहसिज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भुत्तु तहेव पाउं ।
मू. (५४०)
जाणामि जं वट्टइ आउसुत्ति !, किं नाम काहामि ? सुरण भंते! ॥ वृ. 'शय्या' वसति: 'दृढा' वातातपजलाद्युपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि 'मे' ममास्ति, किञ्च- 'उत्पद्यते ' जायते ' भोक्तुं' भोजनाय तथैव 'पातुं' पानाय यथाक्रममशनं पानं चेति शेषः तथा 'जानामि' अवगच्छामि' यद्वर्त्तते' यदिदानीमस्ति 'आयुष्मन्निति प्रेरयितुरामन्त्रणमिति, एतस्माद्धेतोः किं नाम ?, न किञ्चिदित्यर्थः 'काहामि' त्ति करिष्यामि 'श्रुतेन' आगमेनाधीतेनेत्यध्याहारः, 'भंते' त्ति पूज्यामन्त्रणम्, इह च प्रक्रमात्क्षेपे, अयं हि किलास्याशयो यथा ये भवन्तो भदन्ता अधीयन्ते तेऽपि नातीन्द्रियं वस्त किञ्चामवबुध्यन्ते, किन्तु ?, साम्प्रतमात्रेक्षिण एव, तच्चैतावदस्मास्वेवमप्यस्ति, तत्कि हृदयगलतालुशोषविधायिनाऽधीतेनेति ?, एवमध्यवसितो यः स पापश्रमण इत्युच्यत इतीहापि सिंहावलोकितन्यायेन संबध्यत इति सूत्रद्वयार्थः ॥ किंच
मू. (५४१ )
जे केइ उ पव्वईए, निद्दासीले पगामसो ।
भुच्चा पिच्चा सुहं सुअई, पावसमणित्ति वुच्चई ॥
वृ. यः कश्चित्प्रव्रजित: 'निद्राशीलः ' निद्रालुः 'प्रकामश:' बहुशो 'भुक्त्वा' दध्योदनादि 'पीत्वा' तक्रादि 'सुखं' यथा भवत्येय सकलक्रियानुष्ठाननिरपेक्ष एव 'स्वपिति' शेते, पठ्यते च-'बसइ'त्ति 'वसति' आस्ते ग्रामादिषु, स इत्थम्भूतः किमित्याह- पापश्रमण इति 'उच्यते ' प्रतिपाद्यत इति सूत्रार्थः ॥ इत्थं न केवलमनधीयान एव पाप श्रमण उच्यते, किन्तुआयरियउवज्झाएहिं, सुअं विनयं च गाहिए।
मू. (५४२ )
ते चेव खिसई बाले, पावसमणिति बुंच्चई ॥
वृ. आचार्योपाध्यायै: 'श्रुतम्' आगममर्थतः शब्दतश्च 'विनयं च ' उक्तरूपं 'ग्राहित: ' शिक्षितो यैरिति गम्यते ' तानेव' आचार्यादीन् 'ख्रिसति' निन्दति 'बालः ' विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ इत्थं ज्ञानाचारनिरपेक्षं पाप श्रमणमभिधाय दर्शनाचारनिरपेक्षं तमेवाहमू. (५४३ )
-
-
Jain Education International
-
आयरियउवज्झायाणं, सम्मं नो पडितप्पई । अप्पडिपूअए थद्धे, पावसमणिति वच्चई ॥
बृ. आचार्योपाध्यायानां 'सम्यग्' अवैपरीत्येन 'न परितप्यते' न तत्ततिं विधत्ते, दर्शनाचारान्तर्गत वात्सल्यविरहितो न तत्कार्येष्वभियोगं विधत्त इति भावः, 'अप्रतिपूजकः ' प्रस्तावादर्हदादिषु यथोचितप्रतिपत्तिपरांमुखः 'स्तब्ध:' गर्वाध्मातः केनचित्प्रेर्यमानोऽपि न तद्वचनत: प्रवर्त्तते यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ सम्प्रति चारित्राचारविकलं तमेवाहसंमद्दमाणे पाणाणि, बीयाणि हरियाणि य ।
मू. ( ५४४ )
For Private & Personal Use Only
असंजए संजय मन्त्रमाणे, पावसमणित्ति वुच्चई ||
वृ. 'संमर्दन् ' हिंसन् 'प्राणानि 'ति प्राणयोगात् प्राणिनः - द्वीन्द्रियादीन् 'बीजानि ' शाल्यादीनि 'हरितानि च' दूर्वा ंकुरादीनि सकलैकेन्द्रियोपलक्षणमेतत्, स्पष्टरचैतन्यलिङ्गत्वाचैत
www.jainelibrary.org