________________
उत्तराध्ययन-मूलसूत्रम्-२-१७/५३९ काले यत्र कस्यचिज्जन्तोस्तदुदयः, भावे विचारयितुमुपक्रान्ते पापम् ‘इदम्' अनन्तरमेव वक्ष्यमाणं 'हिंस'त्ति हिंसा प्रमत्तयोगात्प्राणव्यपरोपणं 'मृषा' असदभिधानं 'चौर्यं च' स्तैन्यम् 'अब्रह्म' मैथुनंतत: 'परिग्रहः मूर्छात्मकः 'अपिः' समुच्चये 'चः' पूरणे 'गुणाः सम्यग्दर्शननादयस्तद्विपक्षभूताः अगुणा:-मिथ्यात्वादयो दोषाः, नो विपक्षेऽवि दर्शनादमित्रादिवत्, 'भणिताः' उक्ताः, 'तुः' समुच्चये व्यवहितक्रमश्च, अगुणाश्च ये 'सूत्रे' आगमे अन्यत्र इहैव वा प्रस्तुताध्ययने। __ 'श्रमणे' श्रमणविषयः 'चतुष्कनिक्षेपकः' नामादिः 'तुः' पूरणे नामस्थापने पूर्ववत्, द्रव्ये निह्नवादय एव निह्नवादिकाः उक्तरूपाः 'ज्ञानी' प्रशंसायां मत्वर्थीयोत्पत्तेः प्रशस्तज्ञानवान् समिति-सम्यक सदनुष्ठानप्रवृत्त्या यमनं-पापस्थानेभ्य उपरमणं संयमश्चारित्रमितियावत्तेन सहित:-युक्तः संयमसहितो ज्ञातव्यो भावतः श्रमण इति गाथात्रयार्थः ।।
सम्प्रति प्रस्तुते योजयन्नाहनि.[३९०] जे भावा अकरणिज्जा इहमज्झयणंमि वन्निअजिनेहि।
ते भावे सेवंतो नायव्वो पावसमणोत्ति॥ वृ.ये भावाः' संसक्तापठनशीलतादयोऽर्थाः 'अकरणीयाः कर्तुमनुचिताः 'इह' प्रस्तुते - ध्ययने 'वन्निय'त्ति वर्णिताः प्ररूपिताः 'जिनैः' तीर्थकृझिस्तान् भावान् सेवमानः' अनुतिष्ठान् 'ज्ञातव्यः' अवबोद्धव्यः पापेन-उक्तरूपेणोपलक्षितः श्रमणः पापश्रमणः, इतिशब्दः पापश्रमणशब्दस्य स्वरूपपरामर्शक इति गाथार्थः ।। एतद्विपरीतास्तु श्रमणाः, तेषां फलमाहनि.[ ३९१] एयाइं पावाइं जे खलु वजंति सुव्वया रिसओ।
ते पावकम्ममुक्का सिद्धिमविग्घेण वच्चंति ।। वृ. एतानि एतदध्ययनोक्तानि 'पापानि' पापहेतुभूतानिशयालुतादीनि 'ये' इत्यनिर्दिष्टरूपाः 'खलुः' वाक्यालङ्कारे 'वर्जयन्ति' परिहरन्ति सुव्रता ऋषयः पूर्ववत्, ते पापं च तत्कर्म च पापकर्म तेन उपलक्षणत्वात्पुण्यकर्मणा च मुक्ताः-त्यक्ताः पापकर्ममुक्ता सिद्धि सिद्धिगतिम् 'अविघ्नेन' अन्तरायाभावेन वच्चंति'त्ति 'व्रजन्ति' गच्छन्तीति गाथार्थः ।।
गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (५३१) जे केइ उ पव्वइए नियंठे, धम्म सुणित्ता विनओववन्ने।
सुदुल्लह लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु ॥ वृ. 'यः कश्चित्' इत्यविवक्षितविशेषः 'तुः' पूरणे, पठन्ति च - 'जे के इम'त्ति तत्र च 'इमे'त्ति अयं प्रव्रजितः निष्क्रान्तः निर्ग्रन्थः प्राग्वत्, कथं पुनरयु प्रव्रजित इत्याह-'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा निशम्य विनयेन-ज्ञानदर्शनचारित्रोपचारात्मके नोपपत्रो-युक्तो विनयोपपत्रः सन् ‘सुदुर्लभम्' अतिशयदुष्प्रापं 'लभिउं'त्ति लब्ध्या 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति, स किमित्याह-'विहरेत्' चरेत्, ‘पश्चात्' प्रव्रजनोत्तरकाल 'च:' पुनरर्थो विशेषद्योतकस्ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा यथा विकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थ: उक्तं हि-"सीहत्ताए निक्खंतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org