________________
६
उत्तराध्ययन- मूलसूत्रम् - २-१७/५४४ दुपादानम्, अत एवासंयतस्तथाऽपि 'संजय मन्त्रमाणे 'त्ति सोपस्कारत्वात्संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तं, पापश्रमण इत्युच्यते ॥ संथारं फलगं पीढ़, निसिज्जं पायकंबलं । अप्पमज्जियमारुहई, पावसमणित्ति वुच्चइ ॥
मू. (५४५ )
वृ. तथा 'संस्तारं' कम्बल्यादि 'फलकं' चम्पकपट्टादि 'पीठम् ' आसनं 'निषद्यां' स्वध्यायभूम्यादियां यत्र निषद्यते 'पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिनाऽसंशोध्य उपलक्षणत्वादप्रत्युपेक्ष्य च 'आरोहति' समाक्रामिति यः स पापश्रमण इत्युच्यते ॥ दवदवस्स चरई, पमत्ते अ अभिक्खणं ।
मू. (५४६ )
उल्लंघणे अ चंडे अ, पावसमणित्ति वुच्चइ ||
वृ. तथा ' दवदवस्पत्ति द्रुतं द्रुतं तथाविधालम्बनं विनाऽपि त्वरितं २ 'चरति ' गोचरचर्यादिषु परिभ्राम्यति, 'प्रमत्तश्च' प्रमादवशगश्च भवतीति शेषः 'अभीक्ष्णं' वारं वारम् 'उल्लङ्घनश्च' बालादीनामुचितप्रतिपत्त्यकरणतोऽधः कर्त्ता 'चण्ड' क्रोधनः, यद्वा 'प्रमतः' अनुपयुक्त ईर्यासमितौ उल्लङ्घनश्च वत्सडिम्भादीनां चण्डश्चारभटवृत्त्याश्रयणतः, , शेषं तथैव 1 पडिलेहेइ पमत्तो, अवउज्झइ पायकंबलं । पडिलेहाअनाउत्ते, पावसमणित्ति वुच्चइ ॥
मू. (५४७)
वृ. तथा 'प्रतिलेखयति' अनेकार्थत्वात्प्रत्युपेक्षते प्रमतः सन् 'अवउज्झइ 'त्ति 'अपोज्झति' यत्र तत्र निक्षिपति, प्रत्युपेक्षमानो वा अपोज्झति, न प्रत्युपेक्षत इत्यर्थः, किं तत् ? - पाद कम्बलं पात्रकम्बलं वा प्रतीतमेव, समस्तोपध्युपलक्षणं चैतत् स एवं 'प्रतिलेखनाऽनायक्तः ' प्रत्युपेक्षानपयुक्तः, शेषं तथैव ||
मू. (५४८ )
पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरुं परिभावए निच्च, पावसमणित्ति वुच्चइ ॥ वृ. तथा प्रतिलेखयति प्रमत्तः सन् 'किंचि हु'त्ति 'हुः' अपिशब्दार्थः, ततः किञ्चिदपि विकथादीति गम्यते, 'निसामिअ' त्ति 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भाव:, 'गुरुपरिभासय'त्ति गुरुन् परिभाषते - विवदते गुरुपरिभाषकः, पाठान्तरतो गुरुपरिभावकः, 'नित्यं' सदा, किमुक्तं भवति ? - असम्यक्प्रत्युपेक्षमानोऽन्यद्वा वितथमाचरन् गुरुभिश्चोदितस्तानेव विवदतेऽभिभवति वाऽसभ्यवचनैः, यथा स्वयमेव प्रत्युपेक्षध्वं युष्माभिरेव वयमित्थं शिक्षितास्ततो युष्माकमेवैष दोष इत्यादि, शेषं तथैव, गुरुपरिभाषिकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माद्विशेष इति न पौनरुक्त्यम् । किञ्च
}
मू. (५४९)
बहुमाई पमुहरी, थद्धे लुद्धे अनिग्गहे ।
असंविभागी अचियत्ते, पावसमणित्ति वुच्चइ ॥
वृ.' बहुमायो' प्रभूतवञ्चनाप्रयोगवान् प्रकर्षेण मुखरः प्रमुखरः स्तब्धो लुब्ध इति च प्राग्वत्, अविद्यमानो निग्रहः - इन्द्रियमनो इन्द्रियनियन्त्रणात्मकोऽस्येत्यनिग्रहः, संविभजतिगुरुग्लानबालादिभ्य उचितमशनादि यच्छतीत्येवंशीलः संविभागी न तथा य आत्मपोषकत्वेनैव सोऽसंविभागी 'अचियत्ते 'ति गुर्वादिष्वप्रीतिमान् शेषं पूर्ववत् ॥ अन्यच्च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org