________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ अन्यथाऽपि च त्रिभिः सम्भवति, तद्यथा-औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयंच केवलिनाम्, उक्तं हि-"उदइयखइयप्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि-"खाइय तह परिणामा सिद्धाणं होंति नायव्वा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहुः
"एए संजोएणं भावा पन्नरस होंति नायव्वा ।
केवलिसिद्धवसमसेढिएसु सव्वासु य गईसु ।।" आह-एवं सान्निपातिकेनैवात्मनः सदा संयोगसम्भवात् कथं षड्विधत्वमात्मसंयोगस्य?, उच्यते, सहभावित्येऽपि भावनां यदैकस्य प्राधान्यं विवक्ष्यते तदैकेनाप्यात्मसंयोगसम्भव इत्यदोष इति गाथार्थः ।। बाह्यसम्बन्धनसंयोगमाहनि.[५६] नामंमि अखित्तंमि अ नायव्वो बाहिरो य(उ) संजोगो।
कालेन बाहिरो खलु मीसोऽवि य तदुभए होइ॥ वृ. 'नाम्ना' वस्त्वभिधायिध्वनिस्वभावेन, चकारात् द्रव्येण क्षेत्रेण चाकाशदेशात्मकेन, प्राकृतत्वात्, तृतीयार्थे सप्तमी, प्रकृतत्वात् संयोगः, किमित्याह-ज्ञातव्यः बाह्यविषयत्वाद्, 'बाह्यः' तुः पुनरर्थः 'संयोग' इति सम्बन्धनसंयोगः, कालेन' इति चस्य गम्यमानत्वात् कालेन च समयाऽऽवलिकादिना, तत एव संयोगो-बाह्यसम्बन्धनसंयोगः 'खलु' निश्चितं, ज्ञातव्य इति योज्यम्, इदमिहैदम्पर्यम्-यः पुरुषादेर्देवदत्तानाम्ना सम्बन्धोऽयं देवदत्त इत्यादिः द्रव्येण च दण्डीत्यादिः क्षेत्रेणारण्यजो नगरज इत्यादि कालेन दिनजो रजनिज इत्यादि, स सर्वो नामादिभिर्बारेवेति बाह्यः सम्बन्धनसंयोगः, भावेन तु संयोग आत्मसंयोगत्वेनोक्त एव, भवितुरनन्यत्वात्, भावस्य, अन्यथा तस्याभावत्वप्रसङ्गइतीह तस्यानभिधानं, तथा कालेन बाह्य इति चभिन्नवाक्यताकरणं केषाञ्चिन्मतेन कालस्यासत्त्वख्यापनार्थं, यद्वा नाम्नि क्षेत्र इति च विषयसप्तम्येव, यो हि येन सह भवति स तद्विषय एवेतिकृत्वा। __ आह-नाम्नोऽप्यभिलापत्वात् तद्विषयोऽपि संयोगोऽभिलापसंयोगः, स चोक्त एवेति कथं न पौनरुक्त्यम्?, उच्यते, अभिलापसामान्यविषयोऽभिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकषायजीवसम्बन्धित्वात्, वक्ष्यति हि-"संबंधणसंजोगो कसायबहुलस्य होइ जीवस्स" त्ति, कस्यचिन्नाम्न्यप्यभिष्वङ्गसम्भवादभिष्वङ्गहेत्वभिलापविषय एवेति न पौनरुक्त्यं, 'मीसोऽविय'त्ति अपिः' पुनरर्थे, 'चः' पूरणे, ततो मिश्रविषयत्वान्मिश्रः सम्बन्धसंयोगः पुनर्ज्ञातव्यः, यः कीदृगित्याह-'तदुभए'त्ति प्राग्वत्तदुभयेन-आत्मबाह्यलक्षणेन तदुभयस्मिन् वोक्तरूप एव भवति, य: संयोग इति शेषः, यथा-क्रोधी देवदत्तः क्रोधी कौन्तिको मानी सौराष्ट्रः क्रोधी वासन्तिकः, अत्रक्रोधादिभिरौदयिकभावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयसम्बन्धनसंयोग उच्यते।
नन्वेवं न कदाचिन्नामादिविकलैरौदयिकादिभिरौदयिकादिरहितैर्या-नामादिभिरात्मनः संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सत्यमेतत्, किन्तु वक्तुरभिप्रायवैचित्र्याकदाचिदौदयिकादिभिः कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेति नात्मपरोभय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org