________________
अध्ययनं-१,[नि. ५३] योगोऽपि मिश्रः, स एव मिश्रको योगः, प्रक्रमात् सम्बन्धनसंयोगो ज्ञेय इति शेषः, ते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादिपञ्चकस्य द्विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः, तत्र चत्वारो द्विकसंयोगाः षट् त्रिकसंयोगाश्चत्वारश्चतुष्कसंयोगा एकः पञ्चकसंयोग एते च मीलिताः पञ्चदश, भावना तु वक्ष्यमाणेति गाथार्थः ॥
पुनरात्मसंयोगादीनेक प्रकारान्तरेणाभिधित्सुः प्रस्तावनामाहनि.[५४] बीओऽवि य आएसो अत्ताणे बाहिरे तदुभए य।
संजोगो खलु भणिओ तं कित्तेऽहं समासेणं ॥ वृ. द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः, चः पूरणे: 'आदेशः' प्रकार:, प्रस्तावत्, प्ररूपणीयः, कीदृश इत्याह-आत्मनि बाह्ये तदुभयस्मिश्च, संयोग इति सम्बन्धनसंयोगः, खलु' निश्चित भणित' उक्तो, गणधरादिभिरिति गम्यते, अनेन च गुरुपारतन्त्रयमाविष्करोति, 'तम्' इति द्वितीयमादेशं 'कीर्तये' संशब्दये' वर्तमानसामीप्ये वर्तमानवद् वे' ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देश:, 'समासेन' संक्षेपेणेति गाथार्थः ।
तत्र तावदात्मसंयोगमाहनि.[५५] ओदइय ओवसमिए खइए य तहा खओवसमिए य ।
परिणामसन्निवाए अछव्विहो अत्तसंजोगो॥ वृ. 'औदयिके' औदयिकविषये, एवम् औपशमिके च क्षायिके तथा क्षायोपशमिके च परिणामसन्निपाते च, सर्वत्र संयोग इति प्रक्रमः, तत एष 'षड्विधः' षड्भेदः आत्मभिः,आत्मरूपैः संयोग इति सम्बन्धनसंयोगउ आत्मसंयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुभिः, पञ्चभिर्वा, तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन, त्रिभिरौदयिकेन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणामिकेन च जीवत्वेन, चतुचिस्त्रिभिरे(वमे) व चतुर्थेनौपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्र च त्रिकभङ्गक एकः चतुष्कभङ्गौ च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तं च
"ओदइय खओवसमो तइओ पुण पारिणामिओ भावो । _एसो पढमवियप्पो देवाणं होइ नायव्वो।।१।। ओदइय खओवसमो ओवसमिपारिणामिओ बीओ। उदइयखइपारिणामियखओवसमो भवे तइओ॥२॥ एए चेव वियप्पा नरतिरिणरएसु हुंति बोद्धव्वा।
एए सव्वे मिलिया बारस होंती भवे भेया॥३॥" पञ्चभिर्मनुष्यस्यैव, तस्यैव तथोपशमशेण्यारम्भकत्वात्, तस्यामेव च तत्सम्भवात्, तथा चाह
"ओदइए ओवसमिए खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुणेयव्वो।"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org