________________
३७
अध्ययनं-१,[नि. ५६] सम्बन्धनसंयोगत्रयविरोध इति गाथार्थः । प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाहनि.[५७] आयरिय सीस पुत्तो पिया य जननी य होइ धूया य ।
भज्जा पइ सीउण्हं तमुज्जछायाऽऽयवे चेव ।। वृ. आङित्यभिव्याप्त्या मर्यादया वा स्वयं पञ्चविधाचारं चरत्याचारयति वा परान् आचर्यते वा मुक्त्यर्थिभिरासेव्यत इति आचार्यः, अन्यत्रापी'ति वचनात् कर्तरि कर्मणि वा कृत्यप्रत्ययः, तथा शासितुं शक्यः शिष्यः पुनाति पितुराचारानुवर्तितयाऽऽत्मानमिति पुत्रः पाति-रक्षत्यपत्यमिति पिता स च जनयति-प्रादुर्भावयत्यपत्यमिति जननी सा च भवति बाह्यसम्बन्धनसंयोगविषयत्वाद्वाह्यसम्बन्धनसंयोग इति वृद्धाः, इदं च सर्वत्र योज्यं, दोग्धि च केवलं जननी स्तन्यार्थमिति दुहिता, ततश्च 'दुहितरि धो हिलोपश्च' इतिवचनादादेर्धत्वे हिलोपे च 'उदूत् सुपुष्पोत्सवोत्-सुकदुहितृषु' इति वचनात्, उत ऊत्त्वे च धूया, साच, चकारत्रयं पूरणे, भ्रियते, पोष्यते भतॆति भार्या पाति-रक्षति तामिति पतिः स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादिति शीतम् उपति-दहति जन्तुमिति उष्णं तमयति-खेदयति जनलोचनानीति तमः औणादिकोऽसन् 'उज्ज' त्ति आर्षत्वादुद्द्योतयतीति उद्द्योतः पचादित्वादच्, छ्यति छिनत्ति वाऽऽतपमिति छाया, आ-समन्तात्तपति संतापयति जगदिति आपतः, चशब्दो राजभृत्याद्यनुक्ताशेषसम्बन्धिसमुच्चये, लक्षणानुपपत्तौ च सर्वत्र नैरुक्तो विधिः, सुपश्च यत्राश्रवणं तत्र प्राग्वल्लुक, इदमत्रैदम्पर्यम्___ आचार्यः शिष्यादन्यत्वेन बाह्यः, ततो यस्तेन शिष्यस्य संयोगः शिष्य इत्युरिक्तवश्यमाचार्यमाक्षिपति यस्यायं शिष्य इत्याक्षेप्याक्षेपकभावलक्षणः स बाह्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषयआचार्योऽप्युपचारात्तथोच्यते, एवं शिष्योऽप्याचार्यादन्यत्वेन बाह्यः, तेनाप्याचार्यस्य यः संयोगः-आचार्य इत्युक्तिरवश्यं शिष्यमाक्षिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बाह्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततत्सद्विषयः शिष्योऽप्युचारात्, तथोच्यते, एवं पुत्रपित्रादिद्वयेष्वपि भावनीयं, सर्वत्र सामान्येन परस्पराक्षेप्याक्षेपकभावः सम्बन्धः, विशेषनिरूपणायां त्वाचार्याशिष्यभार्यापतोनामुपकार्योपकारकभावः पितृपुत्रजननीदुहितृणां जन्यजनकभावः शीतोष्णादीनां च विरोधः सम्बन्धः, अत एव च विशेषाद्व्य संयोगत्वेऽप्यस्य भेदेनोपादानमिति गाथार्थः ।।
सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूल-त्वादनुयोगस्य तयोः स्वरूपमाहनि.[५८] आयरिओ तारिसओ जारिसओ नवरि हुज्ज सो चेव ।
आयरियस्सवि सीसो सरिसो सव्वेहिवि गुणेहिं ।। वृ.आचार्यः, 'तादृशः' तथाविधः, यादृशः क इत्याह-यादृशो 'नवर' मिति यदि परं भवेत् 'स चेव' त्ति चः पूरणे, स एव-आचार्य एव, किमुक्तं भवति ?-आचार्यस्याचार्य एवान्यः सदशो भवति, न पुनरनाचार्यः, आचार्यगुणानामन्यत्राविद्यमानत्वात्, न ह्याचार्यदन्यः षट्त्रिंशतसंख्यगणिगुणसमन्वित इहास्ति, तत्समन्वितत्वे त्वन्याऽपि तत्त्वत आचार्य एवेति । अथ क एते षट्त्रिंशद्गुणा?, उच्यन्ते, प्रत्येकं चतुष्प्रकारा अष्टौ गणिसम्पदो द्वात्रिंशत्, तत्र चाचारादिचतुर्विधविनयमीलनात् षट्त्रिंशद्भवन्ति, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org