________________
अध्ययनं - १६, [ नि. ३७९]
इति वा इहाभिधीयन्ते इत्यनेन सम्बन्धनायातस्यास्याध्ययनस्य चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिप्पन्ननिक्षेपे दशब्रह्मचर्य समाधिस्थानमिति नाम, ततो दशादिपदानां पञ्चानां निक्षेपः कर्त्तव्यः, तत्र च नैककाद्यभावे दशसम्भव इत्येककनिक्षेपमाह नियुक्तिकृत्नि. [ ३७९ ] नामंठवणादविएमाउयपयसंगहेक्कए चेव । पज्जव भावे अ तहा सत्तेए इक्कगा हुंति ॥
वृ. एतदर्शस्तु चतुरङ्गीयाध्ययन एव कथित इति न प्रतन्यते । एतदनुसारतश्च द्वयादिनिक्षेपः सुकर एवेति तमुपेक्ष्यैव दशनिक्षेपमाह
नि. [ ३८० ]
दससु अ छक्को दव्वे नायव्वो दसपएसिओ खंभो । ओगाहणाठिईए नायव्वो पज्जवदुगे अ ।
वृ. दशसु च निक्षेप्तव्येपु पट्को निक्षेप इति गम्यते, स च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, तत्र नामस्थापने क्षुत्रे, 'दव्वे 'त्ति द्रव्यविषयेषु दशसु विचार्यमानेषु 'ज्ञातव्य: ' अवगन्तव्यः दश प्रदेशाः परिमानमस्येति दशप्रदेशिक : स्कन्धो दशोच्यते, दशपरमानुद्रव्यनिष्पन्नत्वात्, तथा ‘ओगाहणाट्टिईए' त्ति स्कन्ध एवावगाहनायां चिन्त्यमानः प्रक्रमाद्दशप्रदेशावगाढः क्षेत्रदशोच्यते, 'स्थितौ च दशसमयस्थितिकः स एव कालदशोच्यते, उपलक्षणं चैतत्सर्वं, यत आह चूर्णिकृत् -" द्रव्यदश दश सचित्तादीनि द्रव्याणि, क्षेत्रदश दशाकाशप्रदेशाः, कालदश दश समया इति ज्ञातव्याः " 'पज्जव 'त्ति पर्याया दशसङ्ख्यत्वेन विवक्षिता भावदश (क्षये) (क्वये) पर्याया इत्याह- 'द्विके च' जीवाजीवरूपे 'चः ' पूरणे, तत्र जीवपर्याया विवक्षया कपायादयः, अजीवपर्यायाश्च पुद्गलसम्बन्धिनो वर्णादय इति । इदानीं ब्रह्मनिक्षेपमाहबंभंमि उ चउक्कं ठवणाबंभंमि बंभणुप्पत्ती । दव्वंमि वत्थिनिग्गहु अन्नाणीणं मुणेयव्वो । भावे उवत्थिनिग्गहु नायव्वो तस्स रक्खणद्वाए। ठाणाणि तानि वज्जिज्ज जाणि भणियाणि अज्झयणे ॥
नि. [ ३८१ ]
नि. [ ३८२ ]
वृ. 'बंभंमि उ' ति ब्रह्मणि पुनर्विचार्ये 'चउक्कं 'ति चतुष्को नामस्थापनाद्रव्यभावभेदानिक्षेप इति गम्यते, तत्र नामब्रह्म यस्य ब्रह्मेति नाम, स्थापनाब्रह्मणि ब्राह्मणोत्पत्तिर्वक्तव्या, यथाऽऽचारनाम्नि प्रथमाङ्गे
"एका मणूसजाई रज्जुप्पत्तीय दो कया उसभे ।
तिन्नि य सिप्पवणिए सावगधम्मंमि चत्तारि ॥"
३५९
--
इत्यादिना निर्युक्तिकृताऽभिहिता, 'द्रव्ये बस्तिनिग्रहः ' उपस्थनिरोधमात्रम् ' अज्ञानिनां ' मिथ्यादृशां दशब्रह्मचर्यसमाधिस्थानावगमशून्यानां 'मुणितव्यः' प्रतिज्ञातव्यो ब्रह्मेति प्रक्रमः, 'भावे उ'ति भावे पुनर्विचार्ये बस्तिनिग्रहो 'ज्ञातव्यः' अवगन्तव्यः, कस्य सम्बन्धीत्याह'तस्य' इति ब्रह्मणो 'रक्षणार्थाय' रक्षणप्रयोजनाय 'स्थानानि' विविक्तशयनासनसेवनादीनि तानि 'वर्जयेत्' परिहरेद्यस्तस्येति प्रक्रमः, स च ज्ञान्येव, तानि कानीत्याह - यानि 'भणितानि ' उक्तानि 'अध्ययने' इहैव प्रक्रान्त इति गाथाद्वयार्थः ॥ चरणनिक्षेपमाहचरणे छक्को दव्वे गईचरणं चैव भक्खणेचरणं ।
नि. [ ३८३ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org