________________
३५८
उत्तराध्ययन-मूलसूत्रम्-१-१५/५०८ जायनत् 'लोके जगति 'दिव्याः देवसम्बन्धिन: 'मानुष्यकाः' मनुष्यसम्बन्धिनस्तथा 'तैरश्चा:' तिर्यकसम्बन्धिनः भीमाः' रौद्रा: भयेन भैरवा:-अत्यन्तसाध्वसोत्पादका भयभैरवाः 'उदाराः' महान्तो यः 'श्रुत्वा' आकर्ण्य प्रक्रमादुक्तविशेषणविशिष्टानेव शब्दान् 'न व्यथते' न बिभेति धर्मध्यानतो न चलति वा स भिक्षुरिति सूत्रार्थः ।। अनेनोपसर्गसहिष्णुत्वं सिंहविहारितार्या निमित्तमुक्तं, सम्प्रति समस्तधर्माचारमूलं सम्यक्त्वस्थैर्यमाहम. (५०९) वायं विविहं समिच्च लोए, सहिए खेयानगए अ कोवियप्पा।
पन्ने अभिभूय सव्वदंसी, उवसंते अविहेडए स भिक्खू । वृ. 'वाद' च स्वस्वदर्शनाभिप्रायवचनविज्ञानात्मकं 'विविधम्' अनेकप्रकारं, धर्मविषयेऽपि ह्यनेकधा विवदन्ते, यथोक्तं
"सेतुकरणेऽपि धर्मो भवत्यसेतुकरणेऽपि किल धर्मः ।
गृहवासेऽपि च धर्मो वनेऽपि वसतां भवति धर्मः॥" मुण्डस्य भवति धर्मस्तथा जटाभिः सवाससां धर्मः" इत्यादिरूपं समेत्य' ज्ञात्वा लोके सहितः स्वहितो वा पाग्वत् खेदयत्यनेन कर्मेति खेदः-संयमस्तेनानुगतो-युक्तः खेदानुगतः 'च:' पूरणे कोविदः-लब्धशास्त्रपरमार्थ आत्माऽस्येति कोविदात्मा, पन्ने अभिभूय सव्वदंसी उवसंते'त्ति प्राग्वत्, 'अविहेठक:' न कस्यचिद्विबाधको यः स भिक्षुरिति सूत्रार्थः ।। तथामू. (५१०) असिप्पजीवि अगिहे अमित्ते, जिइंदिओ सब्बओ विप्यमुक्के।
अनुक्कसाई लहु अप्पभक्खी, चिच्चा गिह एगचरे स भिक्खू ॥ व.शिल्पेन-चित्रपत्रच्छेदादिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी न तथाऽशिल्पजीवी 'अगृह:' गृहविरहितः तथा अविद्यमानानि मित्राणी-अभिष्वङ्गहेतवो वयस्या यस्यासावमित्रः, जितानि-वशीकृतानि इन्द्रियाणि' श्रोत्रादीनि येन स तथा, 'सर्वत:' बाह्यादभ्यन्तराच्च ग्रन्थादिति गम्यते, विविधैः प्रकारैः प्रकर्षेण मुक्तो विप्रमुक्तः, तथा अनवः-स्वल्पा: सञ्जवलननामान इतियावत् कषायाः-क्रोधादयो यस्येति सर्वधनादित्यादिनि प्रत्ययेऽणुकषायी, प्राकृतत्वात्सूत्रे ककारस्य द्वित्वं, यद्वा उत्कषायी-प्रबलकषायीन तथाऽनुत्कषायी अल्पानि-स्तोकानि लघूनि-नि: निष्पावादीनि भक्षयितुं शीलमस्येति अल्पलघुभक्षी, सूत्रे तिव्यत्ययः प्राग्वत्, 'त्यक्त्वा' अपहा भेदभिन्नम्, एको-रागद्वेषरहितः तथाविधयोग्यतावाप्तावसहायो वा चरतिविहरत्येकचरो अनेनैकाकिविहार उपलक्षित इति सूत्रार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववदेव,
अध्ययनं - १५ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चदशमध्ययनं सनियुक्तिः सटीकं समाप्तम् ..
अध्ययनं - १६- ब्रह्मचर्यसमाधिः वृ. उक्त पञ्चदशमध्ययनम्, अधुना षोडशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भिक्षुगुणा उक्ताः, ते चतत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मगुप्तिपरिज्ञानत
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org