SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१५,[ नि. ३७९] ३५७ वृ. 'गृहिणः' गृहस्था ये 'प्रव्रजितेन' गृहीतदीक्षेण दृष्टा उपलक्षणत्वात्परिचिताश्च 'अप्रव्रजितेन वा' गृहस्थावस्थेन सह 'संस्तुताः' परिचिता भवेयुर्गृहिणो य इति सम्बन्धः 'तेसिं'ति तैः' उभयावस्थयो: परिचित्तैहिभिः 'इहलौकिकफलार्थं वस्त्रपात्रादिलाभनिमित्तं यः 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः ।। तथामू.(५०५) सयनासनपानभोयणं, विविहं खाइमसाइमं परेसिं। अदए पडिसेहिए नियंठे, जे तत्थ न पओसईस भिक्खू ।। वृ. शयनासनपानभोजन मिति शयनादीनि प्रतीतानि विविधम्' अनेकप्रकारं खादिमस्वादिम'मिति खादिमंपिण्डस्वर्जूरादि स्वादिमम्-एलालवङ्गादि, उभयत्र समाहारः 'परेसिं'ति 'परेभ्यः' गृहस्थादिभ्यः 'अदइ'त्ति अदददभ्यः 'प्रतिषिद्धः' क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निर्ग्रन्थः' मुक्तद्रव्यभावदग्रन्थो वः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेष याति पुनर्दास्यतीत्यभिधायकक्षपकषिवत्स भिक्षुरिति सूत्रार्थ: ।। अनेन क्रोधपिण्डपरिहार उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानीं ग्रासैषणादोषपरिहारमाहमू. (५०६) जंकिंचाहारापानगं विविहं, खाइमसाइमं परेसि लद्धं । जो तं तिविहेण नानुकंपे, मनवयकायसुसंवुडे जे स भिक्खू ।। वृ.'यत् किञ्चित्' अल्पमपि आहारपानम्' अशनपानीयं विविधं 'खाइमसाइमं'ति चस्य गम्यमानत्वात् स्वादिमस्वादिमंच उक्तरूपं 'परेसिं'ति परेभ्यः' गृहस्थेभ्यः 'लद्धं'ति लब्ध्वा' प्राप्य य: 'तं'ति सुब्ब्यत्ययात्तेनाहारादिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थः ।-ग्लानबालादीनोपकुरुते न स भिक्षुरिति वाक्यशेषः, यस्तु मनोवाक्कायैः सुष्ठ संवृतो निरुद्धतथाविधाहारद्यभिलाषः सुसंवृता वा मनोवाकाया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानादीननुकम्पत इति गम्यते, सभिक्षुः, यदिवा 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकम्पते (नानुरूपो न कम्पते) मनोवाक्कायसुसंवृतः सन् स भिक्षुरिति सूत्रार्थः ।। अनेनार्थतो गृद्धयभावाभिधानादङ्गारदोषपरीहार उक्तः, सम्प्रति धुमपरिहारमाहमू. (५०७) आयामगं चेव जवोदनं च, सीयं सोवीरजवोदगं च। . नो हीलए पिंडं नीरसंतु, पंतकुलाणि परिव्वए स भिक्खू ॥ वृ.आयाममेव आयामकम्-अवश्रावणं चशब्द उत्तरापेक्षया समुच्चये स्वगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत्, 'यवोदनं च' यवभक्तं 'सीय'ति शीतं-शीतलमन्तप्रान्तोपलक्षणं चैतत्, सोवीर-आचाम्लं यवोदकं च-यवप्रक्षालनं पानीयं सोवीरयवोदकं, तच्च 'नो हीलयेत्' धिगिदं किमनेनामनोज्ञेनेति न निन्देत्, पिण्ड्यते-सङ्घात्यते, कोऽर्थः ? गृहिभ्यः उपलभ्य संमोल्यत इति पिण्डस्तमायामकाद्येन 'नीरसं' विगतास्वाद' 'तुः' अप्यर्थस्ततो नीरसमपि, अत एव प्रान्तकुलनि' तृच्छाशयगृहाणि दरिद्रकुलानि वा यः परिव्रजेत्स भिक्षुरिति सूत्रार्थः ।। अन्यच्चमू.( ५०८) सदा विविहा भवंति लोए, दिव्या मानुसया तहा तिरिच्छा। भीमा भयभेरवा उसला, जो सुच्चा न बिहिज्जई स भिक्खू ॥ वृ.'शब्दाः' ध्वनयः विविधाः' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकारां: 'भवन्ति' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy