________________
३५६
उत्तराध्ययन- मूलसूत्रम् - १-१५ / ५०१ इत्यादि । तथा 'अङ्गविकार:' शिर:- स्फुरणादिस्तच्छुभाशुभसूचकं शास्त्रमप्यङ्गविकारो यथा 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यती 'त्यादि । तथा स्त्ररः- पोदकीशिवादिरुतरूपस्तस्य विषयः -- तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा
"गतिस्तारा स्वरो वामः, पोदक्या: शुभदः स्मृतः । विपरीत प्रवेशे तु स एवाभीष्टदायकः ॥ "दुर्गास्वरत्रयं स्याज्ज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिशब्दः सफलः सुसु मध्यश्चलचलो विफलः ॥" इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविका: शुभाशुभ: प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थ: ॥ अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः, सम्प्रति मन्त्रादिरूपतदोषपरिहारायाह
तथा
मू. (५०२ ) मंतं मूलं विविहं विज्जचिंतं, वमनविरेयनघूमनित्तसिणाणं । आउरे सरणं तिगिच्छियं च तं परिन्नाय परिव्वए स भिक्खू ॥
-
वृ. 'मन्त्रम्' ॐकारादिस्वाहापर्यन्तो हूकारादिवर्णविन्यासात्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पादि तत्तच्छास्त्रविहितं मूलकर्म वा 'विविधं' नानाप्रकारं 'वैद्यचिन्त' वैद्यसम्बन्धिनीं नानाविधौषपथ्यादिव्यापारात्मिकां विविधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम् - उद्गिरणं विरेचनं-कोष्ठशुद्धिरूपं धूमं मनःशिलादिसम्बन्धि नेत्तंति- नेत्रशब्देन नेत्र संस्कारमिह समीराञ्जनादि परिगृह्यते, स्नानम्- अपत्यार्थं मन्त्रौषधिसंस्कृतजलाभिषेनं, 'वमनादीनां च स्नानावसानानामिह कृतसमाहाराणां निर्देशः, 'आउरे सरणं'ति, सुब्व्यत्ययाद् 'आतुरस्य' रोगादिपीडितस्य 'शरणं' स्मरणं हा तात ! हा मातः ! इत्यादिरूपं 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपं 'तद्' इति यदनन्तरमुक्तं 'परित्राय'त्ति ज्ञपरिज्ञय परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' सर्वप्रकारं संयमाध्वनि यायाद्यः स भिक्षुरिति सूत्रार्थः ॥ अपरं च
मू. (५०३ ) खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो । नो तेसि वयइ सिलोगपूअं, तं परित्राय परिव्वए स भिक्खू ।।
वृ. क्षत्रियाः --हैहेयाद्यन्वयजा गणाः- मल्लादिसमूहाः उग्रा:- आरक्षकादयः राजपुत्राः - 'नृपसुताः, एषां द्वन्द्वः, 'माहन भोगिका: ' तत्र माहना ब्राह्मणस्तथा भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:- नृपतिमान्या: प्रधानपुरुषाः, 'विविधाश्च' नानाप्रकारा: 'शिल्पिनः ' स्थपतिप्रभृतयः, पठन्ति च- 'सिप्पिनोऽन्ने' तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव 'तेषां' क्षत्रियादीनां 'वदति' प्रतिपादयति, के ? - 'श्लोकपूजे' श्लोकं - श्लाघां यथैते शोभना इति, पूजां च यथैतान् पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात्, किंतु 'तदि' ति श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ॥ अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाह
मू. (५०४ ) गिहिणो जे पव्वइएण दिवा, अप्पव्वईएण व संथुया हविज्जा । तेर्सि इहलोयफलट्टयाए, जो संथवं न करेइ स भिक्खू ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org