SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१५,[ नि. ३७९] ३५५ कौतुकम्, उपलक्षणत्वाद्भुक्तभोगताया स्मृति ,च 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः ।। इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाहमू. (५०१) छिन्नं सरं भोमं अंतलिक्खं. सुविनं लक्खणं दंड वत्थुविज्जं । अंगविगारं सरस्सविजयं, जो विज्जाहि न जीवई स भिक्खू ।। वृ. छेदनं छिन्नं वसनदशनदार्वादीनां, तद्विषयशुभाशुभनिरूपिका विद्याऽपि छित्रमित्युक्ता, एवं सर्वत्र । 'देवेसु उत्तमो लाभो' इत्यादि, तथा 'सर'त्ति स्वरस्वरूपाभिधानं, "सज्जं रवइ मयूरो, कुक्कुडो रिसभं सरं। हंसो रतति गंधारं, मज्झिमं तु गवेलए।" इत्यादि, तथा- "सज्जेण लहइ वित्ति, कयं च न विनस्सई। गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो।" रिसहेण उईसारियं, सेणावच्चं धणाणि य" इत्यादि। तथा भूमिः-पृथ्वी भूमौ भवं भौमंभूकम्पादिलक्षणं, यथा "शब्देन महता भूमिर्यदा रसति कम्पते। सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ।।" इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्ष-गन्धर्वनगरादिलक्षणं, यथा "कपिलं शस्यघाताय, माञ्जिष्टे हरणं गवाम्। अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥१॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्या दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥२॥" इत्यादि । तथा 'स्वप्नं' स्वप्नगतं शुभाशुभकथनं, यथा "गायने रोदनं ब्रूयान्नतने वधबन्धनम्। हसने शोचनं ब्रूयात्पठने कलहं तथा ॥" इत्यादि । तथा लक्षणं' स्त्रीपुरुषयोर्यथा 'चक्खुसिनेहे सुहितो दंतसिनेहे य भोयणं मिटुं । तयनेहेण य सोखं नहनेहे होइ परमघनं ।" इत्यादि, गजादीनां च यथायथं वालुकाप्यादिविहितम्। तथा 'दंड'त्ति 'दण्डः' यष्टित्सत्स्वरूपकथनम्, “एवपव्वं पसंसंति, दुपव्वा कलहकारिय"त्ति, इत्यादि। तथा 'वास्तुविद्या" प्रासादादिलक्षणाभिधायिशास्त्रात्मका "कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा। लतिनो नागराश्चैव, प्रासादाः क्षितिमण्डनाः ।।१।। सूक्ता: पदविभागेन, कर्ममार्गेण सुन्दराः । फलावाप्तिकरा लोके, भङ्गभेदयुता विभोः ।।२।। अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः। चित्रपत्रविचित्रैश्च, विविधाऽऽकाररूपकैः॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy