SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१६/५१० खित्ते काले जंमि उ भावे उ गुणाण आयरणं ।।। वृ. चरणविषयः षट्कः' षट्परिणाम उक्तरूपो निक्षेपः, तत्र नामस्थापने गतार्थे, द्रव्ये गतिरूपं चरणं गतिचरणं ग्रामादिगमनात्मकमित्यर्थः, 'च:' समुच्चये भिन्नक्रमश्च 'एवे'त्ति पूरणे, 'भक्खणेचरणं'ति एकारोऽलाक्षणिकस्ततो भक्षणचरणं, चरणशब्दस्योभयार्थत्वात्, पठ्यते हि 'चर गतिभक्षणयोः' इति, चथा 'खेत्ते काले जमि'त्ति यस्मिन् क्षेत्रे काले वा चरणं चर्यते व्यावय॑ते वा तत्क्षेत्रचरणं कालचरणं चेति प्रक्रमः, भावे तु 'गुणानां' मूलोत्तरगुणरूपाणाम् 'आचरणम्' आसेवनमिति गाथार्थः ।। समाधिनिक्षेपमाहनि.[३८४] समाहीइ चउक्कं दव्वं दव्वेण जेन उ समाही। भावंमि नाणदंसणतवे चरित्ते अनायव्वं ।। वृ. समाधौ ‘चउक्वं'ति पाग्वच्चतुष्को नामादिनिक्षेपः, तत्र नामस्थापने प्रसिद्धे, 'द्रव्य'मिति द्रव्यमसाधिः 'द्रव्येण' माधुर्यादिगुणान्वितेन 'येन' हेतुना 'तुः' पूरणे 'समाधिः' स्वास्थ्यमुपजायते तदेव समाधिहेतुत्वात्समाधिरिति। भावंमि नानदंसणतवे चरिते अत्ति सूत्रत्वाद्भावे ज्ञानदर्शनतपांसि चरित्रं च स्वस्वरूपाविरोधेनावस्थानात्समाधिर्ज्ञातव्यः, यद्वा ज्ञानं च दर्शनं तपश्चेति समाहार: ततो ज्ञानदर्शनतपसि चरित्रेच, प्रक्रमाद्यः समाधिः-अमीषामेव परस्परमविरोधेनावस्थानं स भावसमाधिरिति ज्ञातव्यमिति गाथार्थः ।। स्थाननिक्षेपमाहनि.[३८५] नामंठवणादविए खित्तद्धा उड्डउवरई वसही। संजमपगगह जोहे अचलगणणसंधणा भावे॥ वृ. सर्वत्र स्थानमिति योजनीयं, नामस्थानमित्यादि, तत्र नामस्थानं प्रतीतं, स्थापनास्थानं तु यो यद्गुणोपेतो यस्मिन्नाचार्यादिपदे स्थाप्यते स एव तिष्ठत्वस्मिन् स्थान इति स्थापनास्थानमुच्यते, 'द्रव्यस्थानम्' आकाशम्, अत्र हि जीवादिद्रव्याणि तिष्ठन्तीति, क्षेत्रस्थानमप्याकाशमेव, यतः क्षेत्रमाकाशं तच्चाकाश एव तिष्ठति, उक्तं हि-'आकाशं तु स्वप्रतिष्ठित मिति, अद्धास्थानमर्द्धतृतीययद्वीपसमुद्ररूपं समयक्षेत्रं, तत्रैव समयावलिकाद्युपलक्षितस्याद्धाकालस्य स्थितेः, ऊर्द्धस्थानं' यत्रोद्भर्वं स्थीयते, तच्च कायोत्सर्गः, 'उपरतिस्थानं' यत्र सर्वसावद्यविरतिवाप्यते, वसतिस्थानं' यत्र स्त्रीपण्डकादिदोपविकले यतिनिवासः, संयमस्थानं-शुभशुभतराध्यवसायविशेषा येषु संयमस्यावस्थितिः, प्रग्रहस्थानं यद्यस्यायुधस्य ग्रहणस्थानं, योधस्थानम्-आलीढप्रत्यालीढादि, अचलस्थानं यस्मिन्न मनागपिचलनसम्भवः, तच्च मुख्यतो मुक्तिरेव, गणनास्थानं यत्रैककादौ शीर्षप्रहेलिकावसाने गणनाऽवतिष्ठते, संघण'त्ति सन्धानस्थानं यत्र देशे त्रुटितमुक्तावल्यादेरेकत्वं विधीयते, 'भावस्थानम्' औदयिकादिभावानां यथास्वमवस्थानविषय इति गाथार्थः॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (५११) सुअं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु धेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सुच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ।। वृ. श्रुतं मयाऽऽयुष्मंस्तेन भगवतैवम् 'आख्यातं' कथितं, कथमित्याह-सोपस्कार For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy