________________
अध्ययनं - १४, [ नि. ३७३ ]
अचिरेणैव कालेन, दुक्खस्संतमुवागया ।।
-
वृ. 'शासने' दर्शने विगतमोहानाम् - अर्हतां 'पूर्व' मित्यन्यजन्मनि भावनया - अभ्यासरूपया भावितानि वासितानि भावनाभावितानि, यद्वा भाविता भावना यैस्तानि भावित भावनानि, पूर्वोत्तरनिपातस्यातन्त्रत्वाद्. अत एवाचिरेणैव स्वल्पेनैव कालेन 'दुःखस्यान्तं' मोक्षम् 'उपागतानि' प्राप्तानि सर्वत्र च प्राकृतत्वात्पुंल्लिङ्गनिर्देशः । मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाहराया सह देवीए, माहणो उ पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडि ॥ त्तिबेमि
मू. ( ४९४ )
वृ. 'राजा' इपुकारः सह 'देव्या' कमलावत्या ब्राह्मणश्च पुरोहितो भृगुनामा ब्राह्मणी तत्पत्नी यसा दारकौ तत्पुत्री चैवेति पूर्ववत्सर्वाणि तानि 'परिनिर्वृतानि' कर्माग्न्युपशमतः शीतीभूतानि मुक्तिं गतानीतियावदिति सूत्रत्रयार्थः ॥
'इति' परिसमाप्तौ ब्रवमीति पूर्ववत्। उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । अध्ययनं - १४ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययसूत्रे चतुर्दशअध्ययनस्य भद्रबाहुसूरिविरचिता निर्युक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्ता अध्ययनं १५- सभिक्षुकः
-
३५१
7
वृ. व्याख्यातं चतुर्दशमध्ययनं सम्प्रति पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववद्वयावर्ण्यानि तावद्यावन्नामनिष्पन्ननिक्षेपे सभिक्षुकमिति नाम, तत्र च सशब्दो भिक्षुशब्दश्च दशवैकालिक एव निक्षिप्तस्तथाऽपि स्थानाशून्यार्थं भिक्षुनिक्षेपमाह नियुक्तिकृत्
नि. [ ३७४ ]
नि. [ ३७५ ]
निक्खेवो भिक्खुमी चउव्विहो० ॥ जाणयसरीरभविए तव्वइरित्ते अ निण्हगाईसु । जो भिदेइ खुहं खलु सो भिक्खू भावओ होइ ॥
वृ. 'निक्षेप: ' न्यासः भिक्षौ विचार्ये चतुविधा नामस्थापनाद्रव्य भाव भेदात्, तत्र नामस्थापने क्षुण्णं द्विविधो भवति द्रव्ये विचार्ये आगमतो नोआगमतः, तत्रागमतो भिक्षुपदार्थज्ञस्तत्र चानुपयुक्तो, नोआगमतश्च स त्रिविध:-'जाणगसरीरभविए' त्ति ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तश्च तत्राद्यौ सुगमावेव तद्यतिरिक्तस्तु द्रव्यभिक्षुर्निह्नवादिषु, आदि
Jain Education International
शब्दात्सरजस्कादिषु चान्यतरो विवक्षित इति गम्यते, द्रव्यत्वं चास्य रागादिलक्षणक्षुद्धेत्तृत्वाभावात्, भावभिक्षुमाह- यो 'भिनत्ति' विदारयति क्षुधं 'खलुः' अवधारणे भिन्नक्रमश्च, ततः स एव भिक्षुर्भावतो भवतीति गाथाद्वयारथः ॥ इह च भिनत्तीत्युक्तमतः कर्तुक रणकर्मभिः प्रयोजनं, सकर्मकत्वाद्भिदेः, अत आह
नि. [ ३७६ ]
-
भेत्ता य अणं वा नायव्वं भिदियव्वयं 1 इक्किक्कंपि अ दुविहं दव्वे भावे अ नायव्वं ॥
For Private & Personal Use Only
www.jainelibrary.org