________________
३५०
तथा संयममासेवस्व, ततश्च किमित्याहमू. ( ४८९ )
उत्तराध्ययन- मूलसूत्रम् - १-१४/४८८
नागुव्व बंधनं छित्ता, अप्पणो वसहिं वए। इति एत्थं महारायं !, उसुआरित्ति मे सुयं ॥
"
वृ. 'नागोव्व' अर्द्ध स्पष्टम्, आशयश्चायं यथा नागः बन्धनं वरत्रान्दुकादि 'छित्त्वा द्विधा विधायात्मनो 'वसति' विन्ध्याटवीं व्रजति, एवं भवानपि कर्मबन्धनमुपहत्यात्मनो वसतिःकर्मविगमतः शुद्धो यत्रात्माऽवतिष्ठते सा च मुक्तिरेव तां व्रजेः, अनेन दीक्षायाः प्रसङ्गत: फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह- 'एतद्' यन्मयोक्तं 'पथ्यं' हितं 'महाराज !' प्रशस्य भूपते ? 'इषुकार !' इषुकारनामन् !, एतच्च न मया स्वमनीषिकयैवोच्यते किन्तु 'इति' इत्येतन्मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यत इति सूत्राष्टकार्थः ॥ एवं च तद्वचनमाकर्ण्य प्रतिबुद्धो नृप:, ततश्च यत्तौ द्वावपि चक्रतुस्तदाह
पू. ( ४९० )
चइत्ता विपुलं रज्जं, कामभोगे अ दुच्चए। निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ॥ सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे चरे। तवं परिज्झऽ हक्खायं, घोरं घोरपरक्कमा ! ॥
-
मू. ( ४९१ )
वृ. ' त्यक्त्वा' प्रहाय 'विपुलं' विस्तीर्ण 'राष्ट्र' मण्डलं, पाठान्तरतो राज्यं वा 'कामभोगांश्च' उक्तरूपान् ‘दुस्त्यजान्' दुष्परिहारान् 'निर्विपयौ' शब्दादिविषयरहितौ अत एव निरामिषौ, यद्वा विषयो- देशस्तद्विरहितौ राष्ट्रपरित्यागतः काभोगात्यागतश्च निरामिषौ-अभिष्वङ्गहेतुविरहितौ, कुतः पुनरेवंविधौ ?, यतो 'नि: स्नेहौ' निष्प्रतिबन्धौ 'निष्परिग्रहौ' क्वचिदविद्यमान-स्वीकारौ ‘सम्यग्' अविपरीतं ' धर्मं श्रुतचारित्रात्मकं 'विज्ञायं' विशेषतोऽवबुद्धय'चेच्च' ति त्यक्त्वा 'कामगुणान्' शब्दादीन् 'वरान्' प्रधानान् पूर्वविशेषणैर्गताथत्वेऽपि पुनरभिधानमतिशयख्यापकं, 'तपः' अनशनादि 'प्रगृह्य' अभ्युपगम्य 'यथाख्यातं' येन प्रकारेण तीर्थकरादिभिः कथितं 'घोरम्' अत्यन्तदुरनुचरं घोरकर्मा- वैरिणः प्रति रौद्रः पराक्रमो धर्मानुष्ठानविषयसामर्थ्यात्मको ययोस्तौ तथा देवीनृपौ तथैव च कृतवन्ताविति शेष इति सूत्रद्वयार्थः ॥ सम्प्रति समस्तोपसंहारामाहमू. ( ४९२ )
एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभउव्विग्गा, दुक्खस्संतगवेसिणो ।
वृ. 'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि षडपि 'क्रमश:' अभिहितपरिपाट्य 'बुद्धानि' अवगततत्त्वानि 'सर्वाणि' अशेषाणि 'धर्मपरायणानि ' धर्मैकनिष्टानि, पठयते च'धम्मपरंपर'त्ति परम्परया धर्मो येषां तानि परम्पराधर्माणि, प्राकृतत्वाच्च परम्पराशब्दस्य परनिपातः, तथा हि- साधुदर्शनात्कुमारकयोः कुमारवचनात्तत्पित्रोस्तदवलोकनात्कमलावत्यास्ततोऽपि च राज्ञ इति परम्परयैव धर्मप्राप्तिः, जन्ममृत्युभयेभ्यः - उक्तरूपेभ्य एवोद्विग्नानिस्तानि जन्ममृत्यु भयोद्विग्नानि 'दुःखस्य' असातस्यान्तः - पर्यन्तस्तद्गवेषकाणि तदन्वेषकाणि सापेक्ष स्यापि समासो यथा देवदत्तस्य गुरुकुलमिति । पुनस्तद्वक्तव्यतामेवाहसासणि विरायमोहाणं, पुव्वि भावणभाविया ।
मू. (४९३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org