________________
अध्ययनं - १४, [ नि. ३७३ ]
३४९
लघुभूतः - संयमस्तेन विहर्तुं शीलं येषां ते तथाविधाः, आ-समन्तान्मोदमाना हृष्यन्त आमोदमाना:, तथाविदानुष्ठानेनेति गम्यते, गच्छन्ति वियक्षितं स्थानमिति शेषः, क इव ? - 'दिया कामकमा इव' ति इवशब्दो भित्रक्रमस्ततो द्विजा इत्र-पक्षिण इत्र काम:- अभिलाषस्तेन क्रामतीति कामक्रमाः, यथा पक्षिणः स्वेच्छया यत्र यत्रावभासते तत्र तत्रामोदमाना भ्राम्यन्ति एवमेतेऽप्यभिष्वङ्गस्य परतन्त्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वहणं तत्र तत्र यान्तीत्याशयः । पुनर्वहिरास्थां निराकुर्वन्त्याहमू. (४८६ )
इमे य बद्धा फंदति, मम हत्थऽज्जमागया। वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥
,
वृ. 'इमे' इत्यनुभूयमानतया प्रत्यक्षाः शब्दादय:, 'च: ' समुच्चये 'वद्धा:' नियन्त्रिता अनेकधोपायै रक्षिता इथ्यर्थः, एते किमित्याह-स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया, ये कीदृश इत्याह- 'मम हत्थऽज्जभाग - य'त्ति 'ममे' त्यात्मनिर्देशे उपलक्षणत्वात्तव च 'हस्तं ' करम्, आर्य ! अद्य वा 'आगताः ' प्राप्ताः कोऽर्थः ? - स्ववशाः, आत्मनोऽज्ञतां दर्शयितुमाह'वयं च सत्त'त्ति वयं पुनः 'सक्तानि ' संबद्धानि अभिष्वङ्गवन्तीत्यर्थः, अबहुत्वेऽप्यस्मदोर्द्वयोश्चेति बहुवचनं, 'कामेषु' अभिलषणीयशब्दादिषु एवंविधेष्वपि चामीष्वभिष्वङ्ग इति मोहविलसितमिति भावः, यद्वा 'इमे चे 'त्ति चशब्दाद्वयं च स्पन्दामह इव स्पन्दामहे आयुषश्चलतया परलोकगमनाय, शेषं तथैव, यत एवमतो भविष्यामो यथेमे पुरोहितादयः, किमुक्तं भवति ? - यथाऽभिश्चञ्चलत्वमवलोक्यैते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति । स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात्किमित्यमी त्यज्यन्ते इत्याह
मू. (४८७ )
सामिसं कुललं दिस्सा, बज्झमानं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥
वृ. सहामिषेण पिशितरूपेण वर्तत इति सामिषस्तं कुललमिह गृघ्रं शकुनिकां वा 'दृष्ट्वा' अवलोक्य 'बाध्यमानं' पीड्यमानं पक्ष्यन्तरैरिति गम्यते, निरामिषम् - आमिषविरहितमन्यथाभूतं दृष्ट्वति गम्यते, 'आमिपम्' अभिष्वङ्गहेतुं धनधान्यादि 'सर्वं' निरवशेषम् 'उज्झित्वा' त्वक्त्वा 'विहरिस्सामो 'त्ति विहरप्याम्यप्रतिबद्धविहारितया चरिष्यामीत्यर्थः, 'निरामिषा' परित्यक्ताभिष्वङ्गहेतुः । उक्तानुवादेनोपदेष्टुमाह
पू. (४८८ )
गिद्धोवमे य नच्चा णं, कामे संसारवडणे । उरगो सुवन्नपासिव्व, संकमानो तणुं चरे ॥
वृ. गृध्रेणोपमा येषां ते गृद्धोपमास्तानुक्तन्यायेन, 'तुः' समुच्चये भिन्नक्रमश्च योक्ष्यते, 'ज्ञात्वा' अवबुध्य, नमिति प्राग्वत्, कान् ? - प्रक्रमाद्विषयामिषवतो लोकान् 'कामाश्च' विषयांश्च 'संसारवर्द्धनान्' संसारवृद्धिहेतून् ज्ञात्वेति सम्बन्धः, अथवा कामयन्त इति कामा इति व्युत्पत्त्या कामयोगाद्वाऽत्यन्तगृद्धिख्यापनार्थं कामा विषयिण एवोक्ता अतस्तान् गृद्धोपमान् संसारवर्द्धनांश्च ज्ञात्वा किमित्याह- 'उरगोसुवन्नपासे व 'त्ति इवशब्दस्य भिन्नक्रमत्वात् आर्षत्वाच्च 'उरग इव' भुजग इव 'सौपर्णेयपार्श्वे ' गरुडसमीपे 'शङ्कमानः ' भयत्रस्तस्तन्विति स्तोकं मन्दं यतनयेतियावत् 'चरे:' क्रियासु प्रवर्त्तस्व, अस्यायमाशय: - यथा सौर्पणेयोपमैर्विषयैर्न बाध्यसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org