________________
३४८
उत्तराध्ययन-मूलसूत्रम्-१-१४/४८१ 'अन्यद' अपरम् 'अहेहे ति वीप्साभिधानं सम्भ्रमख्यापनार्थ, 'किञ्चिदिति स्वजनधनादिकं, यदिवा 'इहे'ति लोके 'इहे'त्यस्मिन् मृत्यौ धर्म एवैकस्त्राणं, मुक्तिहेतुत्वेन, नान्यत्किञ्चित्, ततः स एवानुष्ठेय इति भाव, इति सूत्रचतुष्टयार्थः ।। यतश्च धर्मादृते नान्यन्त्राणमत:मू. (४८२) नाहं रमे पविखणि पंजरे वा, संताणछिन्ना चरिसामि मोनं।
अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनियत्तदोसा।। व.'ने'ति निषेधे, 'अहमित्यात्मनिर्देशे 'रमे' इति रतिमवाप्नोमि 'पक्खिणि पंजरेव'त्ति वाशब्द औपम्ये भिन्त्रक्रमश्च ततः 'पक्षिणीव' शकुनिकेव सारिकादिः 'पञ्जरे' प्रतीत एव, किमुक्तं भवति ?- यथाऽसौ दु:खोत्पादिनि पञ्जरे न रति प्राप्नोति एवमहमपि जरामरणायुपद्रविद्रुते भवपञ्जरे न रमे, अतरिछन्नसन्ताना प्रक्रमाद् विनाशितस्नेहसन्ततिः सती, छिनशब्दस्य सूत्रे परनिपातः प्राग्वत्, 'चरिष्यामि' अनुष्ठास्यामि ‘मौनं' मुनिभावम्, अविद्यमानं किञ्चनं-द्रव्यतो हिरण्यादि भावतः कषायादिरूपमस्या इत्यकिञ्चना, अत एव ऋजुमायाविरहितं कृतम्-अनुष्ठितमस्या इति ऋजुकृता, कथं चैवंभूतेत्याह-निष्क्रान्ता आमिषाद्गृद्धिहतोरभिलषितविपयादेः निर्गतं वा आमिदोपा:-अभिष्वङ्गनिस्तुशतादयस्येभ्यो निवृत्ताउपरता परिग्रहारम्भदोषनिवृत्ता, यद्वा परिग्रहारम्भनिवृत्ता अत एव चादोषा-विकृतिविरहिता, अनयोविशेषणसमासः। मू. (४८३) दवग्गिणा जहा रने, डज्झमानेसु जंतुसुं।
अन्ने सत्ता पमोयंति, रागद्दोसवसं गया । वृ.अपरं च 'दवाग्निना' दावानलेन यथा 'अरण्ये' वने 'दह्यमानेषु' भस्मसात्क्रियमानेषु 'जन्तुषु' प्राणिषु 'अन्ये' अपरे 'सत्त्वाः' प्राणिनोऽविवेकिनः 'प्रमोदन्ते' प्रकर्षेण हष्यन्ति, किमित्येवंविधास्ते इत्याह-रागद्वेषयोर्वश:-आयत्तता रागद्वेषवशस्तं गताः-प्राप्ताः। मू. (४८४) एवमेव वयं मूढा, कामभोगेसु मुच्छिया।
डझमानं न बुज्झामो, रागहोसग्गिणा जगं। वृ. 'एवमेवं'ति बिन्दोरलाक्षणिकत्वादेवमेव वयं 'मूढ'त्ति 'मूढानि' मोहवशगानि 'कामभोगेषु' उक्तरूपेषु 'मुच्छिय'त्ति मूर्छितानि गृद्धानि दह्यमानमिव दह्यमानं न बुध्यामहे' नावगच्छामो रागद्वेपावग्निरिव रागद्वेषाग्निस्तेन, किं तत्? -'जगत्' प्राणिसमूह, यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानानन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय इति तद्रक्षणोपायतत्पर एव भवति, न तु प्रमादवशगः सन् प्रमोदते, यस्त्वत्यन्तमज्ञो रागादिमांश्च स
आयतिमचिन्तयन् हृष्यति न तु तदुपशमनोपाये प्रवर्तते, ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः । ये त्वेवंविधा न भवन्ति ते किं कुर्वन्तीत्याहमू.(४८५) भोगे मुच्चा वमित्ता य, लहुभूयविहारिणो।
आमोअमाना गच्छंति, दिया कामकमा इव ।। वृ.'भोगान्' मनोज्ञशब्दादीन् 'भोच्च'त्ति 'भुक्त्वा' आसेव्य पुनरुत्तरकालं ‘वान्त्वा च' अपहाय विपाकदारुणत्वाल्लघुः-वायुस्तद्वद्भूतं-भवनमेषां लघुभूताः, कोऽर्थ: ?-वायूपमाः तथाविधाः सन्तो विहरन्तीत्येवंशीला: लघुभूतविहारिणः-अप्रतिबद्धविहारिण इत्यर्थः, यद्वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org