________________
३५२
उत्तराध्ययन-मूलसूत्रम्-१-१५/४९४ नि.[ ३७७] रहकारपरसुमाई दारुगमाई अ दव्वओ हुति।
साह कम्मऽट्ठविहं तवो अ भावंमि नायव्यो ।। नि.[३७८] रागदोसा दंडा जोगा तह गारवा य सल्ला य।
विगहाओ सन्त्राओ सुहं कसाया पमाया य॥ व.भेत्ता च कर्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति 'वा' समच्चये 'ज्ञातव्यं' बोद्धव्यं भेत्तव्यमेव भेत्तव्यकं कर्म यद्भिद्यते, 'चः' समुच्चये, 'एव' इति पूरणे, 'एकैकमपि चेति भेत्ता भेदनं भेत्तव्यकं च द्विविधं द्विभेदं द्रव्ये भावे च विचार्यमाने 'ज्ञातव्यम्' अवगन्तव्यं ।
तत्र द्रव्ये 'रहगारपरसुमाइ'ति आदिशब्दस्य प्रत्येकमभिसम्बन्धातद् रथकार:-तक्षकस्तदादिव्यतो भत्ता, आदिशब्दादयस्कारादिपग्रह: परशुः-कुठारस्तदादिव्यतो भेदनम्, आदिशब्दाद् घनादयो गृह्यन्ते, 'दारुगमाई य'त्ति दारुकं-काष्ठं तदादि च द्रव्यतो भेद्यम, आदिशब्दालोहादि परिग्रहः, भवन्तीति सर्वापेक्षं बहुवचनम् । 'साधुः' तपस्वी 'कर्म' ज्ञानावरणादि 'अष्टविधम्' अष्टप्रकारं 'तपश्च' अनशनादि भावे विचार्ये भेत्ता भेत्तव्यं भेदनं च क्रमेण ज्ञातव्यम् । इत्थं जो भिंदई खुहं खलु' इति ग्रहणकवाक्यं गतं, भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह
'रागद्वषो' उक्तरूपो 'दण्डाः' मनोदण्डादयो 'योगाः' करणकारणानुमतिरूपाः, पठन्ति च-'रागद्दोसा छुहं दंडा' अत्र च 'छुहं ति क्षुध्-बुभुक्षा उच्यते, तथा 'गौरवाणि च' ऋद्धिगौरवादीनि शल्यानिच' मायाशल्यादीनि विकथा:' स्त्रीकथादयः ‘सञ्ज्ञाः' आहारसञ्जादयः, 'खुहं'ति एतद्भावभावित्वादष्टविधकर्मरूपायाः क्षुधः एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वा
च्च नपा निर्देशः, 'कषायाः' क्रोधादयः 'प्रमादाश्च' मद्यादयः क्षुदिति सम्बन्धनीयमिति गाथात्रयार्थः ॥ उपसंहर्तृमाहनि.[ ३७९] एयाई तु खुहाई जे खलु भिदंति सुव्वया रिसओ।
ते भिन्नकम्मगंठी उविति अयरामरं ठाणं ॥ वृ. 'एतानि' रागादोनि'खुहाईति क्षुच्छब्दवाच्यानि ये खलु भिदिति' विदारयन्ति, खलुशब्द एवकारार्थो भिन्दन्त्येवेति शोभनानि अनतिचारतया व्रतानि-प्राणातिपातविरत्यादीनि येषां ते सुव्रताः 'ऋषयः' मुनयः, ते किमित्याह-भिन्नः कर्मैवातिदुर्भेदतया ग्रन्थि: कर्मग्रन्थि3स्ते तथाविधाः 'उपयान्ति' प्राप्नुवन्ति 'अजरामरं स्थानं' मुक्तिपदमिति गाथार्थः ।। उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (४९५) मोनं चरिस्सामि समिच्च धम्म, सहिए उज्जुकडे नियाणछिन्ने।
संथवं जहिज्ज अकामकामे, अनायएसी परिब्बए स भिक्खू । वृ. मुनेः कर्म मौनं तच्च सम्यक्चारित्रं चरिस्सामो'त्ति सूत्रत्वात् चरिष्यामि-आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः, 'समेत्य' प्राप्य'धर्म' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, 'सहितः' सम्यग्दर्शनादिभिरन्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कश्चैवम् ? -ऋजुः-संयमस्तत्प्रधानं ऋजु वा-मायात्यागतः कृतम्-अनुष्ठानं यस्येति ऋजुकृतः, ईदृक्क इत्याह-निदानं-विषयाभिष्वङ्गात्मकं, यदिवा 'निदान बन्धने' ततश्च करणे ल्टूट्, निदानंप्राणातिपातादिकर्मबन्धकरणं छिन्नम्-अपनीतं येन स तथा, क्तान्तस्य परनिपातः प्राग्वJain Education International For Private & Personal Use Only
www.jainelibrary.org