________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ __ आह - यदि सचित्तादिविषयत्वादसौ सचित्तादिरिति व्यपदिश्यते, एवं सत्यात्मन एवासौ तै: सह. तत उभयनिष्ठत्वात्तेनापि कि न व्यपदिश्यते ?, उच्यते, यवाङ्करादिवदसाधारणेनैव व्यपदेशः. आत्मनश्च सर्वैरप्यमीभिरसाविति तस्य साधारणत्वान्न तेनेह व्यपदेशः पृथिव्यादिभिरिवाङ्करस्येति न दोषः, एवमुत्तरत्रापि, इति । अमुमेव क्षेत्रकालभावविषयमभिधित्सुराहनि. [ ४७] खेत्ते काले य तहा दुण्हवि दुविहो उ होइ संजोगी।
भावंमि होइ दुविहो आएसे चेवऽनाएसे ।। वृ. क्षेत्रे' क्षेत्रविषयः, 'काले च' कालविषयश्च 'तथा' इति तेनागमप्रसिद्धप्रकारेण 'योरपि' इत्यनयोरेव क्षेत्रकालयोः 'द्विविध.' द्विभेदः, चशब्दो भावम्मि इत्यत्र योक्ष्यते, भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः, न च क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद दुष्टं, लोकेऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्शनाद्, 'भावे च' भावविपयश्च, संयोग इति संटङ्कः, भवति द्विविधः, कथं क्षेत्रादिद्वेविध्यमित्याह-'आएसे चेवऽनाएसे'त्ति आङितिमर्यादया-विशेषरूपानतिक्रमात्मिकया दिश्यते-कथ्यत इति आदेशो विशेषस्तस्मिन्, तदन्यस्त्वनादेशः-सामान्यं, पूर्वत्र चैवशब्दयोः समुच्चयावधाणार्थयोभित्रक्रमात्वात्तस्मिश्चैव, तत्र क्षेत्रविषयोऽनादेशे यथा-जम्बूद्वीपजोऽयम, आदेशे तु यथा-भारतोऽयं, कालविपयोऽनादेशे यथा-दौष्यमिकोऽयम्, आदेशे तु-वासन्तिकोऽयं, भावविषयोऽनादेशे भाववानयम, आदेशे त्वौदयिकादिभाववानिति। __सामान्यावगमपूर्वकत्वाद्विशेषावगमस्यैवमुदाहियते, निर्युक्तौ तु विपर्ययाभिधानं जम्बूद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरतमिति वेशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेपयोरनियतत्वख्यापनार्थं, भावे च भवति द्विविध इति भिन्नवाक्यताऽभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः । अत्र क्षेत्रकालगतयोरादेशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विपयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमभिधित्सुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आहनि.[४८] ओदइअ ओवसमिए खइए य तहा खओवसमिए य।
परिणाम सन्निवाए छव्विहो होअनाएसो।। वृ. तत्रोदय:-शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्वादीनां विपाकतोऽनुभवनं तेन निवृत्तः औदयिकः, क्वचित्तु 'उदयिए'त्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघुत्वानुज्ञानात् नात्र छन्दोभङ्गः, उक्तं हि
"इहियारा बिंदुजुया एओ सुद्धा पयावसाणंमि।
रहवंजणसंजोए परंमि लहुओ विभासाए।" विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निर्वृत्त औपशमिकः, क्षयः-कर्मणामत्यन्तोच्छेदः तेन निर्वत्तः क्षायिकः सच, तथा क्षयश्च-अभाव उदयावस्थस्य उपशमश्च--विष्कम्भितोदयत्वं तदन्यस्य क्षयोपशमौ ताभ्यां निर्वृत्तः क्षायोपशमिकः स च, परीति- सर्वप्रकारं नमनं-जीवानामजीवानां च जीवत्वादिस्वरूपादिस्वरूपानुभवनं प्रति प्रबोभवनं परिणामः, 'एदोद्रलोपा विसर्जनीयस्ये'ति विसर्गलोपा विसर्जनीयस्येति विसर्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org