________________
अध्ययनं-१,[नि. ४८] लोपः, 'स' मिति संहतरूपतया नीतिजनियतं पतनं-गमनं, कोऽर्थः?- एकत्र वर्तनं, सन्निपात:औदयिकादिभावानामेव धादिसंयोगः, 'चः' सर्वत्र समुच्चये, इत्थं षड्विद्याः-प्रकाराअस्येति पड्विधो भवति 'अनादेशः' सामान्यं, सामान्यत्वं चौदयिकादीनां गतिकषायादिविशेषेष्वनुवृत्ति धर्मकत्वाद्, अनादेशस्य षड्विधत्वे तद्विषयः संयोगोऽपि षड्विध इत्युक्तं भवति इति गाथार्थः ॥ इदानीमादेशविषयं तमेव भेदत आहनि.[ ४९] आएसो पुन दुविहो अप्पिअववहारऽनप्पिओ चेव।
इक्किक्को पुन तिविहो अत्तान परे तदुभए य॥ वृ. 'आदेशः' अभिहितरूपः, पुन:शब्दो विशेषणष 'द्विविधः' द्विभेदः, कथमित्याह'अप्पियववहारऽनप्पिओ चेव'त्ति व्यवहारशब्दोऽत्र डमरुकमनिन्यायेनोभयत्र सम्बन्ध्यते, ततश्चार्पित इति व्यवहारो यस्मिन् सोऽयमर्पितव्यवहारः, मयूख्यंसकादित्वात् समासः, अनपितव्यवहारस्तु तद्विपरीतः, तत्रार्पितो नाम क्षायिकादिर्भावः स्वाधारे भाववति ज्ञाताऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारेण वक्त्रा स्थापितः, अनपितस्तु वस्तुनः साधारणत्वेऽपि निराधार एव प्ररूपणार्थं विवक्षितो यथा-सर्वभावप्रधानः क्षायिको भावः । अनयोरपि भेदानाह'एकैक:' इत्यपितव्यवहारः अनर्पितव्यवहारश्च पुनस्त्रिविधः, कथमित्याह-'अत्ताण'त्ति आर्षत्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तस्मिंश्च, विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्त्रैविध्यम्, इहाप्यादेशभेदाभिधानद्वारेण सम्बन्धनसंयोगस्य भेद उक्तो भवति, तत्र चानर्पितस्य प्ररूपणामात्रसत्त्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम्, अतो वस्तुतस्तस्यासत्वान्न तेन कस्यचित्संयोगसम्भव इति न तद्भेदेन संयोगभेदः, अर्पितस्य त्वात्मपरोभयार्पितभेदतस्त्रैविध्यात् तद्भेदेन त्रिविधः सम्बन्धनसंयोग इति गाथार्थः ।।
तत्राऽऽत्माऽपितसम्बन्धनसंयोगमाहनि.[५०] ओवसमिए य खइए खओवसमिए य पारिणामे अ1
एसो चउव्विहो खलु नायव्वो अत्तसंजोगो॥ वृ.औपशमिके यस्य भिन्नक्रमत्वात् क्षायिके च क्षायोपशमिके च सर्वत्र सम्यक्त्वादिरूपे जीवस्य(स्व) भावे 'तथा' तेनागमोक्तप्रकारेण चस्यास्यापि भिन्नक्रमत्वात् परिणामे च जीवत्वाद्यात्मके च, सर्वत्र संयोग इति प्रक्रमः, पठ्यते च-'खओवसमिए य पारिणामे यत्ति स्पष्टमेव, 'एषः' अनन्तरोक्त औपशमिकादिसंयोगः 'चतुर्विधः' चतुष्प्रकारः, 'खलु' निश्चितं ज्ञातव्यः' अवबोद्धव्यः, 'आत्मसंयोगः' इत्यात्मार्पितसम्बन्धनसंयोगः, अत्र ह्यात्मशब्देना-र्पितभाव एव धर्मधर्मिणोः कथञ्चिदनन्यत्वादुक्तः, तथा च वृद्धाः-'एए हि जीवमया भवंति, एएसु भावेसु जीवो ननो हवइ' तदात्मक इत्यर्थः, औपशमिकादिभावानां च प्रागनादेशतोक्तावप्यत्रादेशत्वेनाभिधानं सम्यक्त्वादिविशेषनिष्ठत्वेन विवक्षितत्वाद भावसामान्यापेक्षया वेति गाथार्थः । किञ्चनि.[५१] जो सन्निवाइओ खलु भावो उदएण वज्जिओ होइ।
इक्कारससंजोगो एसो चिय अत्तसंजोगो।। 28/31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org