SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१, [ नि. ४५ ] ३१ चत्रिधा सम्भवति, तत्रैकोऽभिलापस्याभिलाप्येन द्वितीयोऽभिलाप्यस्याभिलाप्यान्तरेण तृतीयो वर्णस्य वर्णान्तरेण । तत्राद्योऽभिलाप्यस्य द्रव्यादिभेदेन चतुर्विधत्वात् 'द्रव्ये' इति द्रव्यविषयः, सचार्थाद् घटादिशब्दस्य पृथुबुध्नो दराद्याकारपरिणतद्रव्येण वाच्यवाचक भावलक्षणः सम्वन्धः, एवं 'क्षेत्रे च' क्षेत्रविषयः, आकाशध्वनेरवगाहदानलक्षणक्षेत्रेण 'कालभावे' इति समाहारद्वन्द्वः, ततः ‘काले' कालविषयः समयादिश्रुतेर्वर्तनादिव्यङ्गयेन कालपदार्थेन, 'भावे च' भावविषयऔदयिकादिवचसो मनुष्यत्वादिपर्यायेण, चशब्दोऽत्र पूर्वत्र च समुच्चये । द्वितीयमाह-द्विकस्य संयोगो द्विकसंयोग: स आदिर्यस्य त्रिकसंयोगादेः सोऽयं द्विकसंयोगादिकः, इहाभिलापसंयोगस्य त्रिविधत्वात् तत्र चाद्यस्यानन्तरमेवोक्तत्वात् तृतीयस्य चाभिधास्यमानत्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते, तत्र द्विकसंयोगो यथा - सच सच तौ, त्रिकसंयोगो यथा स च तौ च ते, अत्र तौ च ते चेत्युक्ते स च स च तथा स च तौ चेत्यनुक्तावयेकत्राभिलाप्यार्थद्वयमन्यत्र चाभिलाप्यार्थत्रयं सह प्रतीयते, अभिलापसंयोगत्वं चास्याभिलापद्वारकत्वादभिलाप्येन सह प्रतीतेः । तृतीयमाह- अक्षरे च अक्षराणि च अक्षराणि तेषां संयोगः अक्षरसंयोगः स आदिर्यस्योदात्ताद्यशेषवर्णधर्मसंयोगस्य सोऽयमक्षरसंयोगादिकः, मकारोऽलाक्षणिकः, तत्राक्षरयोः संयोगो यथा - क इति, अक्षराणां संयोगः यथा श्रीरिति, उदात्तादिवर्णधर्मसंयोगास्तु स्वधिया भावनीयाः, अस्याप्यभिला', संयोगत्वं वर्णादीनां कथञ्चिदभिलापानन्यत्वेन तदात्मकत्वात्, यद्वाऽक्षरसंयोग इत्यनेन सर्वोऽपि व्यञ्जनसंयोग उक्तः, आदिशब्देन त्वर्थसंयोगः, एतद्विशेषणं च द्विकसंयोगादिरिति योजनीयम्, अन्यत् प्राग्वत्, द्रव्यसंयोगत्वं चास्याभिलापस्य द्रव्यत्वात्, द्रव्यत्वं चास्य स्पर्शवत्त्वेन गुणाश्रयत्वात्, वक्ष्यति हि - "गुणाणमासओदव्वं "ति, न च स्पर्शवत्त्वमसिद्धं, प्रतिघातजनकत्वात्, तथाहि यत् प्रतिघातजनकं तत्स्पर्शवत् दृष्टं यथा लोष्टादि, प्रतिघातजनकश्च शब्दः अन्यथा तथाविधशब्द श्रुतावनुभवसिद्ध श्रोत्रान्तः पीडाया असम्भवादिति गाथार्थः ॥ उक्तोऽभिलापविषय इतरेतरसंयोगः, सम्प्रति सम्बन्धनसंयोगरूपस्य तस्यावसरः, सोऽपि द्रव्यक्षेत्रकालभावभेदतश्चतुर्धा, तत्र द्रव्यसंयोगसम्बन्धनमाह नि. [ ४६ ] संबंधणसंजोग सच्चित्ताचित्तमीसओ चेव । दुपार हिरन्नाई रहतुरगाई अ बहुहा उ ।। वृ. सम्बध्यते प्रायो ममेदमित्यादिबुद्धितोऽनेनास्मिन् वाऽऽत्माऽष्यविधेन कर्मणा सहेति सम्बन्धन: स चासौ संयोगश्च सम्बन्धनसंयोगः, 'सच्चित्ताचित्तमीसओ चेव' त्ति प्राग्वत् सुपो लुकि सचित्तोऽचित्तो मिश्रकः, चः समुच्चये, एवः भेदावधारणे, यथाक्रममुदाहरणान्याह द्विपदेत्यादिना, सचित्ते द्विपदादिः, आदिशब्दाच्चतुष्पदापदपरिग्रहः, तत्र च द्विपदसंयोगो यथा - पुत्री, चतुष्पदसंयोगो यथा - गोमान् अपदसंयोगो यथा - पनसवान् । अचित्ते हिरण्यादिः, आदिशब्दान्मणिमुक्तादिग्रहः, स च हिरण्यवानित्यादि । मिश्रे रथयोजितस्तुरगः मध्यपदलोपे रथतुरगस्तदादिः, आदिशब्दाच्छकटवृषभादिपरिग्रहः, स च रथिक इत्यादि, 'च: ' समुच्चये, 'बहुधा तु' इति बहुप्रकार एव, तुशब्दस्यैवकारार्थत्वात्, इह च सचित्तविषयत्वात् सम्बन्धनसंयोगोऽपि सचित इत्यादि सर्वत्र भावनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy