________________
३०
उत्तराध्ययन-मूलसूत्रम्-१-१/१ नि.[ ४३] अभिपेयमनभिपेओ पंचसु विसएसु होइ नायव्यो ।
अनुलोमाऽभिप्पेओ अनभिप्पेओ अ पडिलोभो । व.'अभिपेय'त्ति अभिप्रेतः 'अनभिप्पओ'त्ति चस्य गम्यमानत्वादनभिप्रेतश्च, प्रक्रमादितरेतरसंयोगः, किमित्याह-'पञ्चसु' विषयेषु शब्दादिपञ्चकगोचरे, अर्थादिन्द्रियमनसां तद्ग्रहण - प्रवृत्तौ ग्राह्यग्राहकभावः, स चाभिप्रेतार्थविषयोऽभिप्रेतः अनभिप्रेतार्थविषयस्त्वनभिप्रेतः भवति ज्ञातव्यः, आह-आस्त्वेवाभिप्रतानभिप्रतार्थविषयत्वेनाभिप्रेत: अनभिप्रेतश्चेतरेतरसंयोगः, अभिप्रतानभिप्रेतार्थों तु काविति, अत्रोच्यते, 'अनुलोम' इन्द्रियाणां प्रमोदहेतुतयाऽनुकूल श्रवयकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्तविपरीतकाकस्वरादिरिति गाथार्थः ॥ इह गाथापश्चार्द्धन मनोनिरपेक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्राधान्यमाश्रित्य तदपेक्षयाऽभिप्रतोऽनभिप्रेतश्चार्थ उक्तः, सम्प्रति मनोऽपेक्षया तमेवाहनि.[ ४४] सव्वा ओसहजुत्ती गंधजुत्ती य भोयणविही य।
रागविहि गीयवाइयविही अभिप्पेयमनुलोमो ।। वृ.'सर्वाः' समस्तां, कोऽर्थः?-इन्द्रियाणामनुकूला: प्रतिकूलाच, अस्य चौषधयुक्त्यादिभिः प्रत्येक सम्बन्धः, ततश्च औषधादीनाम-अगुरुकुङ्कमादीनां सज्जिकाराजिकादीनां च युक्तयो-योजनानि समविषमविभागनीतयो वा औषधयुक्तयः, गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणादीनां च युक्तयः गन्धयुक्तयः ताश्च, भोजनस्य-अन्नस्य विधयः-शाल्योनादयः कोद्रवभक्तादयश्च भेदाः भोजनविधय: ते च, 'रोगविहिगीयवाइयविहि'त्ति सूत्रत्वाद्वचनव्यत्यये रागविधयश्च गीतवादित्रविधयश्च रागविधिगीतवादित्रविधयः, तत्र रञ्जनं रागःकुसुम्भादिना वर्णान्तरापादनं तद्विधयः-स्निग्धत्वादयो रूक्षत्वादयश्च गीतवादित्रविधय इति, तत्र विधिशब्दस्योभयत्र योगात्, गीतं-गानं तद्विधयः-कोकिलारुतानुकारित्वादयः काकस्वरानुविधायित्वादयश्च, वादित्रम-आतोद्यम्, इह चोपचारात्तद्ध्वनिः दद्विधयो-मृदङ्गादिस्वनाः केवलकरटिकादिस्वनाश्च, चशब्दो नृत्तादिविधिसमुच्चयार्थः, एते किमित्याह-'अभिप्पेय'ति अभिप्रेतार्था उच्यन्ते, कीदृशाः सन्त इत्याह-अनुलोमाः, कोऽर्थः? शुभा अशुभा वा मनोऽनुकूलतया प्रतिभासमानाः, एतेनैतदप्याह-यथैत एव देशकालावस्थादिवशतो विचित्राभिसन्धितया जन्तूनां मनसोऽननुलोमाः सन्तोऽनभिप्रेतोऽर्थः । __ इत्थं व्याख्यानतो विशेषप्रतिपत्तिमाश्रित्येन्द्रियापेक्षया मनोऽपेक्षया च भेदेनाभिप्रेतोऽनभिप्रेतश्चार्थो व्याख्यातः, अथवाऽनन्तरगाथापश्चार्द्धनाविशेषणेन्द्रियाणां मनसश्चानुकूलोऽभिप्रेतोऽर्थः इतरस्त्वनभिप्रेत उक्तः, एतद्गाथयाऽपि स एव विशेषतो दर्शित इति व्याख्येयम्, अत्रच सर्वा इति सर्वप्रकारा अनुलोमा इति चेन्द्रियमनसामनुकूला:,शेष प्राग्वत्। उपेक्षणीयस्य त्विहानभिधानं नयस्य कस्यचिन्मतेनानभिप्रेत एव तस्यान्तर्भावादिति गाथार्थः ।। उक्तोऽभिप्रेतानभिप्रेतभेदरूप इतरेतरसंयोगः, साम्प्रतममुमेवाभिलापविषयमाहनि.[४५] अभिलावे संजोगो दव्वे खित्ते अकालभावे अ।
दुगसंजोगाईओ अक्खरसंजोगमाईओ॥ वृ. 'अभिलाप:' उक्तस्वरूपः, तद्विषय: 'संयोगः' प्रक्रमादभिलापेतरेतरसंयोगः, अयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org