________________
अध्ययनं-१,[नि. ४१] प्रतरचतुरस्त्रस्यैवाध उपरि च तथैव नव नवानवः स्थायाः, तत स्त्रिगुणा नव सप्तविंशतिर्भवति ३, युग्मप्रदेशं घनचतुरस्रम् अष्टप्रदेशमष्टप्रदेशावगाढं च, तत्र चतुप्प्रदेशस्य प्रतरस्यैवोपरि चत्वारोऽन्ये स्थाप्याः, ततो द्विगुणाचत्वारोऽष्टौ भवन्ति ४। ओज: प्रदेशं श्रेण्यायतं त्रिप्रदेशत्रिप्रदेशावगाढं च, तत्र च तिर्यग निरन्तरास्त्रयोऽणवः स्थाप्याः, युग्मप्रदेशं श्रेण्यायतं द्विप्रदेश द्विप्रदेशावगाढं च, तत्र च तथैवाणुद्वयं न्यस्यते, ओजः-प्रदेशं प्रतरायतं पञ्चदशप्रदेशं पञ्चदशप्रदेशावगाढं च, तत्र प्राग्वत् पङ्क्तित्रये पञ्च पञ्चाणवः स्थाप्याः, युग्मप्रदेश प्रतरायतं घटप्रदेशं घटप्रदेशावगाढंच, तत्र च प्राग्वत् पक्तिद्वये त्रयस्त्रीयोऽणवः स्थाप्याः, ओजःप्रदेशं घनायतं पञ्चचत्वारिंशत्प्रदशं पञ्चचत्वारिंशत्प्रदेशावगाढं च, तत्र पञ्चदशप्रदेशस्य प्रतरायतस्यैवाझ उपरि च तथैव पञ्चदश पञ्चदशाणवः स्थाप्याः, तस्त्रिगुणाः पञ्चदश पञ्चत्वारिंशद्भवन्ति ५,
युग्मप्रदेशंघनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढंच, तत्र च पटप्रदेशस्य प्रतरायतस्येवोपरि तथैव तावन्तोऽणवः स्थाप्याः, तेतो द्विगुणाः षट् द्वादश भवन्ति ६ । परिमण्डलमुक्तन्यायतो द्विभेदमेव, तत्र प्रतरपरिमण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढंच, तत्र च प्राच्यादिषु चतुसप दिक्षु चत्वारश्चत्वारो विदिक्षु चैकैक: स्थाप्यः, मीलिताश्चैते विंशतिर्भवन्ति, घनपरिमण्डलं चत्वारिंश-प्रदेशं चत्वारिंशत्प्रदेशावगाढं च, तत्र च तस्या एव विंशतरुपरि तथैवविंशतिरन्या स्थाप्यते, विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति २। इत्थं चैषां प्ररूपणमितोऽपि न्यूनदेशतायां यथोक्त-संस्थानासम्भवात्, न चैतान्यतीन्द्रियत्वेनातिशायिगम्यत्यात् सर्वथाऽनुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छक्यानीति तथैव दर्शितानीति गाथात्रयभावार्थः ।। उक्तः परमानू-नामितरेतरसंयोगः, सम्प्रति तमेव प्रदेशानामाहनि.[ ४२] धम्माइपएसाणं पंचण्ह उ जो पएससंजोगो।
तिण्हपुण अणाईओ साईओ होति दुण्हं तु ।। वृ. धर्मादीनां-धर्माधर्माकाशजीवपुद्गलानां प्रदेशा:-उक्तरूपा धर्मादिप्रदेशास्तेषां, 'पञ्चानाम्' इति सम्बन्धिनां धर्मादीनां पञ्चसङ्ख्यत्वेन पञ्चसङ्ख्यानां 'तु:' पुनरर्थः, संयोग इति गम्यते, स च श्रुतत्वाद्धर्मादिभिः स्कन्धस्तया तदन्तर्गतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः, असौ किमित्याह-प्रदेशानां संयोगः प्रकृतत्वादितरेतरसंयोगाख्यः प्रदेशसंयोगः, उच्यते इति शेपः, अस्यैव विभागमाह-'त्रयाणां पुन:' पुनःशब्दस्य विशेषद्योतकत्वात् धर्माधर्माकाशप्रदेशानां धर्मादिभिरेव त्रिभिस्तेषामेव देशैः प्रदेशान्तरैश्च प्रकृतत्वादितरेतरसंयोगः 'अनादिः'
आदिविकलः सदा संयुक्तत्वादेषां, ‘सादिकः' आदियुक्तो भवति द्वयोः' पारिशेष्याज्जीवप्रदेशपुद्गलप्रदेशयोः, तथाहि-संयुज्यन्ते वियुज्यन्ते संसारिजीवप्रदेशा: कर्मपुद्गलप्रदेशाश्च परस्परं धर्मादिप्रदेशैश्च सह, तुशब्दो विशेषं द्योतयति, सचायं-जीवप्रदेशानां धर्मादित्रयदेशप्रदेशापेक्षया पुद्गलस्कन्धाद्यपेक्षया च सादिसंयोगः, धर्मादिस्कन्धत्रयापेक्षया त्वनादिः, पुद्गलप्रदेशानामपि धर्मादिस्कन्धत्रयापेक्षयाऽनादिः, शेषापेक्षया तु सादिः।
इह च धर्मादिस्कन्धानां तद्देशानां च यः परस्परं संयोगः स न प्रदेशसंयोगमन्तरेणेति तदभिधानत एवोक्तो मन्तव्यः, अप्रदेशस्य तु परमाणोर्धर्मादिभिः संयोग उक्तानुसारतः सुज्ञान एव इति नोक्त इति गाथार्थः ।। उक्त: प्रदेशानामितरेतरसंयोगः, सम्प्रत्यभिप्रेतानभिप्रेतभेदरूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org