________________
२८
उत्तराध्ययन- मूलसूत्रम् - १-१/१ इह च धनप्रतरभेदमेव वृत्तादीत्थं भिद्यते, ततः प्रतरवृत्तभोजः प्रदेशं युग्मप्रदेशं च, तथा घनवृत्तमोजः प्रजेशं यग्मप्रदेशं च एवं व्यस्त्रादिष्वपि चतुर्विधं भावनीयं, परिमण्डलं वर्जनीयं च. समसङ्ख्यानुष्वेव तस्य सम्भवेनैवंविधभेदासम्भवात्, तथा च द्विविधमेव परिमण्डलमिति गाथार्थः । इह च परिमण्डलादि प्रत्येकं जघन्यमुत्कृष्टं च तत्रोत्कृष्टं सर्वमनन्ताणुनिप्पन्नसङ्ख्यप्रदेशावगाढं चेत्येकरूपतयाऽनुक्तमपि सम्प्रदायाज्ज्ञातुं शक्यमिति तदुपेक्ष्य जघन्यं तु प्रतिभेदमन्यान्यरूपतया न तथेति तदुपदर्शनार्थमाह
नि. [३९]
नि. [४०]
नि. [४१]
वृ. आसामर्थ: स्पष्ट एव, नवरमायते पदाभिधानम्यापित्वेन प्रागनुद्दिष्टस्यापि श्रेणिगतभेदद्वयस्याधिकस्य तत्र सम्भवात् तथा परिमण्डलादित्वेऽपि संस्थानानां वृत्तादिभेदानामोज: प्रदशप्रतरादीनामनन्तरोद्दिष्टत्वात् प्रत्यासत्तिन्यायेन यथाक्रमं पञ्चकादिभि: प्रथममुपदर्शनं, पश्चात् परिमण्डलभेदद्वयस्य । तत्रौज: प्रदेशप्रतरवृत्तं पञ्चाणुनिप्पन्नं पञ्चाकाशप्रदेशावगाढं च, तत्रैको ऽनृरन्तरेव स्थाप्यते. चतसृषु पूर्वादिदिक्षु चैकैकः, युग्मप्रदेशप्रतरवृत्तं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र हि चतुर्षु प्रदेशेषु निरन्तरमन्तश्चतुरोऽनृन्निधाय तत्परिक्षेपेनाष्टौ स्थाप्यन्ते, ओजः प्रदेशं घनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च तच्चैवम् तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्याणोरुपरिष्टादधस्ताच्चैकैकोऽनुरवस्थाप्यते, ततो द्वयसहिताः पञ्च सप्त भवन्ति ३, युग्मप्रदेशं धनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तत्र प्रतरवृत्तोप्रदर्शितद्वारदशप्रदेशोपरि द्वादशान्ये, तदुपरि चत्वारोऽ धस्ताच्च तावन्त एवाणवः स्थाप्याः, एते मीलिता द्वात्रिंशद्भवन्ति ४ । ओजः प्रदेशं प्रतरत्र्यत्रं त्रिप्रदेशं त्रिप्रदेशावगाढं च तत्र च तिर्यग्निरन्तरमनुद्रयं विन्यस्याऽऽद्यस्याध एकोऽणुः स्थाप्यः, युग्मप्रदेशं प्रतरत्र्यत्रं पट्प्रदेशं पट्प्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरं त्रयोऽणवः स्थाप्यन्ते तत आद्यस्याधस्ताद धऊर्ध्व भावेन द्वयं द्वितीयस्य त्वध एकोऽणुः स्थाप्यः, ओजः प्रदेशं घनत्र्यत्रं पञ्चत्रिंशत्प्रदेशं पञ्चत्रिंशत्प्रदेशावगाढं च तत्र च तिर्यग्निरन्तराः पञ्चाणवी न्यस्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्तरयो द्वावेकश्चाणुः स्थाप्यन्ते, अस्य च प्रतरस्योपरि सर्वपङ्क्तिष्वन्त्यान्त्यपरमाणुपरिहारेण दश, तथैव तेषामुपर्युपरि पट् त्रय एकश्चेति क्रमेणाणवः स्थाप्याः एते मीलिताः पञ्चत्रिंशद्भवन्ति ३,
युग्मप्रदेशं घनत्र्यस्त्रं चतुष्प्रदेशं चतुष्प्रदेशावगाढं च तत्र च प्रतरत्र्यत्र एव त्रिप्रदेशे एकतरस्यांपर्यकोऽणुर्दीयते, ततो मीलिताश्चत्वारो भवन्ति ४ । ओजः प्रदेशं प्रतरचतुरस्त्रं नवप्रदेशं नवप्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरं त्रिप्रदेशास्तिस्रः पङ्क्तयः स्थाप्याः, युग्मप्रदेशं प्रचरचतुरस्रं च चतुष्प्रदेशं चतुष्प्रदेशावगाढं च तत्र चतिर्यग्निरन्तरं द्विप्रदेशे द्वे पङ्क्ती स्थाप्येते, ओजः प्रदेशं धनचतुरस्रं सप्तविंशतिप्रदेशं सप्तविंशतिप्रदेशावगाढं च तत्र च नवप्रदेश्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
पंचग बारसगं खलु सत्तग बत्तीसगं तु वदृ॑मि । तिय छक्कग पनतीसा चत्तारि य हुति तंसंमि ॥ नव चैव तहा चउरो सत्तावीसा य अटु चउरंसे । तिगदुगपन्नरसेऽवि य छच्चेव य आयए हुंति ॥ पणयालीसा बारस छन्भेया आययंमि संठाणे । वीसा चत्तालीसा परिमंडलि हुति संठाणे !