________________
२७
अध्ययनं-१,[नि. ३७]
अन्य त्वाहुः- एकगुणादि स्वस्थानापेक्षया द्विगुणेन रूपाधिकेन सम्बध्यत इति, अयमत्र विशेपः खलुशब्देन सूच्यते, तथा चैककस्य स्वस्थानापेक्षया द्विगुणो द्विक एव स च रूपाधिकस्त्रिक एव इति त्रिगुणेनैकवैकगुणस्य सम्बन्धः, तथा द्विगुणस्य पञ्चगुणेन त्रिगुणस्य सप्तगुणेन चतुर्गुणस्य नवगुणेन पञ्चगुणस्यैकादशगुणेनेत्यादि, उक्तं च
"समनिद्धयाइ बंधो न होइ समलुक्खयावि य न होइ।
वेमाइनिद्धलुक्खत्तणेण बंधो उ खंधाणं ।।१।।" (तथा)"दोण्ह जहन्नगणाणं निद्धाणं तह य लक्खदव्वाणं ।
एगाहिएवि य गुणे न होति बंधस्स परिणामो ॥२॥
निद्धविउणाहिएणं बंधा निद्धस्स होइ दव्वस्स।
लुक्ख बिउणाहिएम य लुक्खस्स समागमं पप्प ।।३।।" स्निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयो विषमगुणयोर्चा जघन्यवर्जयोर्वन्धपरिणतिरिति विशेषः । तथा चाह
"बझंति निद्धलुक्खाविसमगुणा अहव समगुणो जेऽवि।
वज्जितु जहन्नगुणे बझंती पोग्गला एवं ।।" इत्यादि, येन विशेषण संस्थानात् स्कन्धस्य भेदेनोपादानं तमाविष्कर्तुमाह-'तं संठाणंति' प्राकृतत्वादेवं पाठः, तस्य-स्कन्धस्य संस्थानम्-आकारस्तत्संस्थानम्, अनेन-हदि विवर्तमानतया प्रत्यक्षेण परिमण्डलादिनाऽनन्तरोक्तप्रकारेणेत्थमिथ्थं तिष्ठति इत्थंस्थं, न तथा अनित्थंस्थम्, अनेन नियतपरिमण्डलाद्यन्यतराकारं संस्थानं शेषोऽनियताऽऽकारस्तु स्कन्ध इत्यनयोविशेष इत्युक्तं भवति। आह-स्कन्धानामपि परस्परं बन्धोऽस्ति, यदुक्तम्-"एमेव य खंधाणं दुपएसाईण बंधपरिणामो' त्ति अत: किं न तेपामपीरतरेतरसंयोग इहोक्तः ?, उच्यते, उक्त एव, तेषां प्रदेशसद्भावात्, प्रदेशानां च इयरेतरसंजोगो परमाणूणं तहा पएसाणं' इत्यनेन तदभिधानादिति गाथार्थः ॥ संस्थानभेदानाहनि.[३८] परिमंडले य वट्टे तंसे चउरंसमायए चेव।
घनपयर पढमवज्ज ओयपएसे य जुम्मे य ।। वृ.लिङ्ग व्यभिचार्यपी'ति प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्ययः, ततः परिमण्डलं, प्रक्रमात् संस्थानमेवमुत्तरत्रापि, तच्च बहिर्वृततावस्थितप्रदेशजनितमन्तःशुपिरं, यथा वलकस्य, चशब्द उत्तरभेदापेक्षया समुच्चये, वृत्तं तदेवान्तःशुपिरविरहितं यथा कुलालचक्रस्य, त्र्यस्त्रं-त्रिकोणं, यथा शृङ्गाटकस्य, चतुरस्त्रं-चतुष्कोणं, यथा कुम्भिकायाः, आयतं-दीधं, यथा दण्डस्य, चः पूर्वभेदापेक्षया समुच्चये 'एव' अवधारणे, तत इयत एव संस्थानभेदाः, 'घनपयर'त्ति घनं च प्रतरं च घनप्रतरं, प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्यते, इहापि तथैवोपदर्शयिष्यते, ततः प्रतरघन इति निर्देशः प्राप्तः, अल्पाक्ष(चत)रत्वात्तु घनशब्दस्य पूर्वनिपातः, ततश्चैकैकं परिमण्डलादि प्रतरंघनंच, भवतीति गम्यते, तथा प्रथमम्-आद्यं वर्जयति-त्यजतीति प्रथमवर्ज-परिमण्डलरहितं वृत्तादिसंस्थानचतुष्कमित्यर्थः 'आयपएसे य'त्ति ओजः प्रदेश च-विषयसङ्ख्यपरमाणुकं 'जुम्मे य' त्ति प्रक्रमाद युग्मप्रदेशं च, उभयत्र चः समुच्चये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org