________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ अभिपेयमणभिपेओ अभिलावो चेव संबंधो॥ वृ.इतरेतरस्य-परस्परस्य संयोगो-घटना इतरेतरसंयोग: 'परमाणूनाम्' उक्तरूपाणां, तथा प्रकर्षणसूक्ष्मातिशयलक्षणेन दिश्यन्ते - कथ्यन्त इति प्रदेशाः- धर्मास्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेपाम्, 'अभिपेयं' ति प्राकृतत्वादभिप्रेतः, इतरेतरसंयोगइति योज्यते, एवमुत्तरत्रापि, अभिप्रेतत्वं चास्याभिप्रेतविपयत्वाद्, एतद्विपरीतोऽनभिप्रेतः, अभिलप्यते-आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापो-वाचक: शब्दस्तद्विषयत्वात् अभिलापः, च: समुच्चये, "एव:' अवधारणे, सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धन-सम्बन्धः, स चैव स्वस्वामित्यादिरनेकधा वक्ष्यमाणः, एतावद्भेद एवायमितरेतरसंयोग इति चावधारणस्यार्थ इति गाथासमासार्थः ॥ परमाणूनां संयोगमाह-- नि.[३६] दुविहो परमाणूणं हवइ य संठाणखंधओ चेव ।
संठाणे पंचविहो दुविहो पुन होइ खंधेसु।। वृ. द्वौ विधौ प्रकारावस्येति द्विविधः-द्विभेदः, कोऽसौ !-- ‘परमाणूनाम्' इति परमाणुसम्बन्धी, प्रक्रमादितरेतरसंयोगो भवति, 'च:' पूरणे, कथं द्विविध इत्याह-'संठाणखंधतो'त्ति संतिष्ठतेऽनेन रूपेण पुद्गलात्मकं वस्त्विति संस्थानम्-आकारविशेष: ततस्तमाश्रित्य, 'स्कन्धतः' स्कन्धमाश्रित्य, चः समुच्चये, एवः' भेदावधारणे । द्विविधस्यापि प्रत्येकं भेदानाह- संस्थाने' संस्थानविषयः ‘पञ्चविधः' पञ्चप्रकार: 'द्विविधः' द्विप्रकार:, पुन:शब्दो वाक्यान्तरोपन्यासे भवति 'स्कन्धेषु' स्कन्धविषय इति गाथार्थः ।। इह च संस्थानस्कन्धभेदद्वारक एवायमितरेतरसंयोगभेद इति तदभिधानमुचितं, तत्र 'यथोद्देशं निर्देश' इति न्यायत: संस्थानभेदाभिधानप्रस्तावेऽप्यल्यवक्तव्यत्वात् स्कन्धभेदं हेतुभेदद्वारेणाहनि.[३७] परमाणुपुग्गला खलु दुन्नि व बहुगा य संहता संता।
निव्वत्तयंति खंधं तं संठाणं अनित्थत्थं ॥ वृ. परमाणुपुद्गलौ खलु दौ वा वहव एव बहुकाः त्रिप्रभृतयः, ते च परमाणुपुद्गला: 'संहताः' एकपिण्डतामापन्नाः सन्तो 'निवर्तयन्ति' जनयन्ति, किमित्याह-'स्कन्धं द्व्यनुकादिकम्, अनेन च द्विपरमानुजन्यतया बहुपरमानुजन्यत्वेन च स्कन्धस्य द्विभेदत्वमुक्तं, खलुशब्दोऽत्र विशेष द्योतयति, स चायम्-इह रूक्षः स्निग्धो वा एकगुणः सम्बध्यमानो द्विगुणाधिकेनैव स्वस्वरूपापेक्षया सम्बध्यते, न तु समगुणेनैकगुणाधिकेन वा, किमुक्तं भवति? एकगुणस्निग्धस्त्रिगुणस्निग्धेन सम्बध्यते त्रिगुणस्निग्धः पञ्चगुणस्निग्धेन पञ्चगुणस्निग्धः सप्तगुणस्निग्धेनेत्यादि, तथा द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन चुतुर्गुणस्निग्धः पड्गुणस्निग्धेनेत्यादि, एवमेकगुणरूक्षगुणरूक्षेण त्रिगुणरूक्षः पञ्चगुणरूक्षेनेत्यादि, तथा द्विगुणरूक्षश्चतुर्गुणरूक्ष चतुर्गुणरूक्षः पडूगुणरूक्षेनेत्यादि, एव द्विगुणाधिकसम्बन्धो भावनीयः, न त्वेकगुणस्निग्ध एकगुणस्निग्धेन द्विगुणस्निग्धेन वा सम्बध्यते द्विगुणस्निग्धो द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा यावदनन्तगुणस्निग्धोऽप्यनन्तगुणस्निग्धेन समगुणेनैकगुणाधिकेन वा, एवमेकगुणरूक्ष एकगुणरूक्षेण द्विगुणरूक्षेण वा द्विगुणरूक्षो द्विगुणरूक्षेण त्रिगुणरूक्षेण वा यावदनन्तगुणरूक्षोऽप्यनन्तगुणरूक्षेण समगुणैनकगुणाधिकेन वेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org