________________
अध्ययनं - १, [ नि. ३३ ]
ज्ञातव्यः, अचित्तसंयुक्तकसंयोग इति प्रक्रमः, अयमर्थ:कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धी द्विस्पर्शः कार्यलिङ्ग ॥
इत्येवंलक्षणपरमाणुर्यदा त्र्यणुकादिस्कन्धपरिणतिमनुभवति तदा रसादिसंयुक्त एव द्व्यणुकादिभिः स्कन्धैः संयुज्यते, यदा वा तिक्ततादिपरिणतिमपहाय कटुकत्वादिपरिणतिं प्रतिपद्यते तदाऽपि वर्णादिभिः संयुक्त एव कटुकत्वादिना संयुज्यते इति संयुक्तसंयोग उच्यते । अत्र च कृष्णपरमाणुः कृष्णत्वमपहाय नीलत्वं प्रतिपद्यत इत्येको भङ्गः, एवं रक्तत्वं पीतत्वं शुक्लत्वं चेति चत्वारः, तथाऽयमेव रसपञ्चकगन्धद्वयाविरुद्धस्यशैस्तारतम्यजनितैश्च स्वस्थान एव द्विगुणकृष्णत्वादिभिः परमाण्वन्तरद्विप्रदेशादिभिश्च योजनाद्विवक्षावशतः सङ्ख्यातासङ्ख्यातानन्तात्मिकां भङ्गरचनामवाप्नोति एवं वर्णान्तररसस्पर्शगन्धस्वगततारतम्य-. युक्तोऽपि तथा द्विप्रदेशादिश्च । यच्च- 'वण्णरसगंधफासा पोग्गलाणं च लक्खणं' इत्यादिसूत्रेषु वर्णस्यादित्वेन दर्शनेऽपि 'एगरसएगवण्णे 'त्ति रसस्य प्रथमत उपादानं तदनानुपूर्व्या अपि व्याख्याङ्गत्वेन गाथाबन्धानुलोम्येन वेति भावनीयम् । सुपर्णादीनां च प्राच्यवर्णकासंयुक्तानामेव विशिष्टवणिकादिभिः संयोगोऽचित्तसंयुक्तसंयोग उक्तानुसारेण सुज्ञान एवेति नियुक्तिकृता न व्याख्यात इति गाथार्थः ॥ दृष्टान्तपूर्वकं सन्ततिकर्मणा जीवस्य मिश्रसंयुक्तकद्रव्यसंयोगं व्यक्तीकर्तुमाहनि. [३४]
२५
जह धाऊ कनगाई सभासंजोगसंजुया हुति । इअ संतइकम्मेणं अनाइसंजुत्तओ जीवो ॥
वृ.‘यथा' इत्युदाहरणोपन्यासार्थः, यथा ' धातवः ' कनकादियोनि भूतो मृदादयः 'कनगाइ'ति सूत्रत्वात्कनकादिभिः, आदिशब्दात्ताम्रादिभिश्च किमित्याह-स्वभावेन संयोगः - प्रकृतीश्वराद्यराथान्तरव्यापारनपेक्षयोपलक्ष्यानुपलक्ष्यरूपो यः सम्बन्धस्तेन संयुता-मिश्रिताः स्वभावसंयोगसंयुताः 'भवन्ति' विद्यन्ते 'इती' त्यमुनैवार्थान्तरनिरपेक्षत्वलक्षणेन प्रकारेण सन्ततिः - उत्तरोत्तनिरन्तरोत्पत्तिरूपः प्रवाहस्तयोपलक्षितं कर्म-ज्ञानवरणादि सन्ततिकर्म तेन, न विद्यते आदिः - प्राथम्यमस्येत्यनादिः स चेह प्रक्रमात्संयोगस्तेन 'स' मिति अन्नोन्नानुगयाणं इमं च तं चति । विभयणमजुत्तं' इत्यागमाद्विभागाभावतो युक्त:- श्लिष्टोऽनादिसंयुक्तः स एव अनादिसंयुक्तकः, यद्वा-संयोगः संयुक्तं ततोऽनादिसंयुक्तमस्येति अनादिसंयुक्तकः, क इत्याहजीवति जीविष्यति जीवितवांश्चेति जीवः, मिश्रसंयुक्तकद्रव्यसंयोग इति प्रक्रमः च इदमुक्तं भवति - जीवा ह्यनन्तकर्मानुवर्गणाभिरावेष्टितप्रवेष्टितोऽपि न स्वरूपं चैतन्यमतिवर्तते, न चाचैतन्यं कर्माण इत तद्युक्ततया विवक्ष्यमाणोऽसौ संयुक्तकमिश्रद्रव्यं, ततोऽस्य कर्मप्रदेशान्तरैः संयोगो मिश्रसंयुक्तकद्रव्यसंयोग उच्यते, इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादिसंयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोगस्याभावख्यापनार्थम्, अन्यथा मुक्त्यनुष्ठानवैफल्यापत्तेरिति भावनीयमिति गाथार्थः ।।
उक्तः संयुक्तकसंयोग:, इतरेतरसंयोगमाह
नि. [३५]
Jain Education International
इयूरेयरसंजोगो परमाणूणं तहा पसाणं ।
For Private & Personal Use Only
www.jainelibrary.org