________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ नि.[३१] संजुत्तगसंजोगी सच्चित्तादीण होइ दव्वाणं।
दुममनुसुवनमाई संतइकम्मेण जीवस्स ।। वृ. संयुक्नकसंयोगः अनन्तराभिहितस्वरूपः, सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति दव्याणाम्, अमीपामुदाहरणान्याह 'दुममनुसुवन्नमाइ'त्ति अत्र मकारस्यालाक्षणिकत्वात् सुब्ब्यत्ययाच्च 'द्रुमाणुसुवर्णादीनां' प्रत्येकं चादिशब्दसम्बन्धात्सचित्तद्रव्याणां दुमादीनाम् अचित्तव्यागामण्वादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु सन्ततिकर्मणोपलिक्षितस्य जीवस्य, अत्र चाण्वादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्र व्याणां सचित्तमिश्रद्रव्यापेक्षया भृयस्त्वख्यापनार्थम् एतद्भ्यस्त्वं च जोवेभ्य: पुद्गलानामनन्तगुणत्वात्, उक्तं च -
___ "जीवा पोग्गल समया दव्य पएसा य पज्जवा चेव ।
थोवाऽनंतानंता विसेसमहिया दुवऽनंता॥" इति, अनेन च सचित्तादे: संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तामिति गाथार्थः ।। तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं विवरीतुमाहनि. [ ३२] मृले कंद खंधे तया य सालेपवालपत्तेहि।
पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई ।। वृ.'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च 'मूलेन' अधःप्रसर्पिणा स्वावयवेन 'कन्देन' तेनैव मूलस्कन्धान्तरालवतिना 'स्कन्धेन' स्थुडेन 'त्वचा' छविरूपया 'साले'त्ति एकारोऽलाक्षणिकः, ततः 'शालाप्रवालपत्रः' शाखापल्लवपलाशैः, फले इत्यत्राप्येकार-स्तथैव, ततः 'पुष्यफलबीजैश्च' प्रसिद्धरेव 'संयुक्तः' सम्बद्धो भवति 'दुममाइत्ति' मकारोऽलाक्षणिकः ततो द्रुमादिः, आदिशब्दाद्गुच्छगुलम्मादिश्च संयुक्तकसंयोग इति प्रक्रमः । स हि प्रथममुद्गच्छन्नङ्करात्मक: पृथिव्याः संयुक्त एक मूलेन संयुज्यते, ततो मूलसंयुक्तक एव कन्देन, कन्दसंयुक्त एव स्कन्धेन एवं त्वशाखाप्रवालपत्रपुष्यफलवीजैरपि पूर्वसंयूक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम, नन्वेवं द्रुमादेव्यत्वात् संयुक्तकसंयोगस्य च गुणत्वात्कथं द्रुमादिरेव स इति, अत्रोच्यते, धर्मधर्मिणोः कथञ्चिदनन्यत्वादेवमुक्तमित्यदोषः, एवमुत्तरभेदयोरपीति गाथार्थः ।। अण्वादीनामचित्तसंयुक्तकद्रव्यसंयोगं स्पष्टयितुमाहनि.[३३] एगरस एगवने एगेगंधे तहा दुफासे अ।
परमाणू खंधेहि अ दुपएसाईहि नायव्यो।। वृ.एक:-अद्वितीयस्तिक्तादिरसान्यतमो रसोऽस्यति एकरसः, तथैक: कृष्णादिवर्णान्यतमो वर्णोऽस्येति एकवर्णः, एवम् ‘एकगन्ध:' सुगन्धीतरान्यतरगन्धान्वित:, 'एगे' इत्येकारस्यालाक्षणिकत्वात्, तथा द्वौ चाविरूद्धो स्निग्धशीताद्यात्मको स्पर्शावस्येति द्विस्पर्श:, चशब्द: स्वगतानन्तभेदोपलक्षकः, क एवंविधः? इत्याह- परम:-तदन्यसूक्ष्मतरासम्भवात् प्रकर्षवान् स चासावणुश्च परमाणुः, उपलक्षणत्वाद् धुनुकादिश्च, 'स्कन्धैश्च' स्कन्धशब्दाभिधेयैः, कैरित्याह-द्वौ प्रदेशावारम्भकावस्येति द्विप्रदेशो-द्यणुकः, स आदिर्षेषां त्रिप्रदेशादीनामचित्तमहास्कन्धपर्यन्तानां ते तथा तैः, चशब्दात्परमाण्वन्तरर्वर्णान्तरादिभिश्च, संयुज्यमान इति गम्यते, 'विज्ञेयः' विशेषेणसङ्ख्यातासङ्ख्यातानन्तभङ्गविबावनात्मकेनावबोद्धव्यः, पाठान्तरतो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org