________________
अध्ययनं-१,[नि. ३०]
उप्पायव्ययरहियं दव्वं चिय निव्वियारंति॥१॥ आविभावत्तिरोभावमेत्तपरिणामकारणमचिंतं।
निच्चं बहुरूवंपिय नडोव्य वेसंतरावन्नो ॥२॥" (भावनय आह-) सम्यग् विवेत्त्यमानोऽत्र, भाव एवावशिष्यते।
पूर्वापरविविक्तस्य, यतस्तस्यैव दर्शनम्॥ तथाहि-भाव: पर्याय:, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तद दृश्यमदृश्यं वा?, यदि दृश्यं, नास्ति तद्यतिरेकेण अनुपलभ्यमानत्वात्, खरविपाणवत्, न हि वलितमीलितपटी - कृतत्रुटितसवटितादिविचित्रभवनबहिर्भूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति, अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात्, पष्ठभूतक्त. ततः प्रतिसमयमुदयव्ययात्मकं स्वयंभवनमेव भावाख्यमस्ति, उक्तं च
"भावत्थंतरभूयं कि दव्वं नाम? भाव एवायं ।
भवणं पइक्खणं चिय भाववत्ती विवत्ती य॥" परमार्थतस्त्वयम्-संविनिष्ठैव सर्वापि, विषयाणां व्यवस्थितिः । संवेदनं च नामादिविकलं नानुभूयते ।। तथाहि
घटोऽयमिति नामैतत्, पृथुबुघ्नादिनाऽऽकृतिः । मृद्दव्यं भवनं भावो, घटे दृष्टं चतुष्टयम् ॥१॥
तत्रापि नाम नाकारमाकारो नाम नो विना। तौ विना नापि चान्योऽन्यमुत्तरावपि संस्थितौ ।।२।।
मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः।
सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे।।३।। इत्थं चैतत्, परस्परसव्यपेक्षितयैवाशेपनयानां सम्यग्नयत्वात्, इतरथा 'उत्पादव्यय ध्रौव्ययुक्तं सदि'ति प्रत्यक्षादिप्रमाणप्रतीतसल्लक्षणानुपपत्तेश्च। किञ्च-शब्दादपि घटादेर्नामादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते, इत्यतोऽपि नामादिचतूरूपतैव सर्वस्य वस्तुनः,
___ "नामादिभेदसद्दत्थबुद्धिपरिणामभावओ निययं ।
जं वत्थु अत्थि लोए चउपज्जायं तयं सव्वं ।।" (ततश्च)- चतुष्काभ्यधिकस्येह, न्यासो योऽन्यस्य दर्श्यते।
एतदन्तर्गतः सोऽपि. ज्ञातव्यो धोधनान्वितैः ॥१॥ इत्यलं प्रसङ्गेन। सम्प्रति नियुक्तिरतुश्रि(स्त्रि)यते-तत्र नामस्थापने आगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोग: सुगम इति मन्वानो व्यतिरिक्तद्रव्यसंयोगमभिधातुमाह'द्विविधस्त्वि'ति द्विविध एव, द्रव्येण द्रव्यस्य वा, 'स'मिति सङ्गतो योगः संयोगः, संयोगद्वै. विध्यमेवाह-संयुक्तमेव संयुक्तकम् -अन्येन संश्लिष्टं, तस्य संयोगो-वस्त्वन्तरसम्बन्धः संयुक्तकसंयोगो ज्ञातव्यः, 'इतरेतर' इति इतरेतरसंयोगः, चः समुच्चये 'एव:' अवधारणे, इत्थमेव द्विविधे एष संयोग इति गाथासमासार्थः ।। विस्तरार्थं त्वभिधित्सुः 'यथोद्देशं निर्देश' इति न्यायत: संयुक्तकसंयोगं भेदेनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org