________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ (तथा)"नामंठवणादवियत्ति एस दव्वट्ठियस्स निक्खेवो । भावत्ति पज्जवट्ठिय परूवया एस परमत्थो ।।११।।" यद्वा किन्नः किलैंताभ्यां, किन्त्वेप विधिराश्रितः। यद्याख्या वस्तुतत्त्वस्य, बोधायैव विधीयते ।।१२।। । तच्च नामादिरूपेण, चतूरूपं व्यवस्थितम्।
नामाद्येकान्तवादानामयुक्तत्वेन संस्थितेः ॥१३॥ (तथाहि-नामनय आह-)यतो नाम विना नास्ति, वस्तुनो ग्रहणं ततः।
नामैव तद्यथा कुम्भो, मृदेवान्यो न वस्तुनः ॥१४॥ (तथाहि)-यत् प्रतीतावेव यस्य प्रतीतिस्तदेव तस्य स्वरूप, यथा मृत्प्रतीतावेव प्रतीयमानस्य घटस्य मृजेव रूपं, नामप्रतीतावेव च प्रतीयते वस्तु, न च विनापि नाम निर्विकल्पकविज्ञानेन वस्तुप्रतीतिरस्तीति हेतोरसिद्धता, सर्वसंविदां वागूपत्वात्, तथा च भर्तृहरिः
वागूपता चेद्वोधस्य, व्युत्क्रामेतेह शाश्वती।
न प्रकाश: प्रकाशेत, सा हि प्रत्यवमशिनी ।।" यदि च नामरूपमेव वस्तु न स्यात ततश्च तदवगतावपि वस्तुनि संशयादीनामन्यतमदेव स्यात, तथा च पूज्याः
"संसय विवज्जओ वाऽणज्झवसाओऽवि वा जहिच्छाए।
होज्जऽत्थे पडिवत्ती न वत्थुधम्मो जया नामं ।।" स्थापनानय आहस्थापनेत्याकारः, ततश्चप्रमाणमिदमेवार्थस्याऽऽकारमयतां प्रति ।
नामादि न विनाऽऽकारं, यतः केनापि वेद्यते ।। तथाहि-नाम्नोऽर्थान्तरेऽपि वर्तयितुं शक्यत्वात्र तदुल्लेखेऽप्याकारावभासमन्तरेण नियतनीलाद्यर्थग्रहणमित्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वं, ततो ज्ञानज्ञेयाभिधानाभिधेयादिसकलमाकारारूषितमेव संव्यवहारावतारि, तद्विकलस्य खपुष्पस्येवासत्त्वात्, उक्तं
"आगारो च्चिय मइसद्दवत्थुकिरियाफलाभिहाणाई।
आगारमयं सव्वं जमनागारं तयं नत्थि॥१॥ न परानुमयं वत्थु आगाराभावओ खपुष्पं व।
उवलंभव्ववहाराभावओ नाणगारं च ।।२।।" (द्रव्यनय आह-) यथा नामादि नाकारं, विना संवेद्यते तथा।
नाऽऽकारोऽपि विना द्रव्यं, सर्व द्रव्यात्मकं ततः। तथाहि-द्रव्यमेव मृदादिनिखिलस्थासकोशकुशूलकुटकपालाद्याकारानुयायि वस्तु सत्, तस्यैव तत्तदाकारानुयायिनः सद्बोधविषयत्वात्, स्थासकोशाधाकाराणां तु मृद्रव्यातिरेकिणां कदाचिदनुपलम्भात्, तच्चोत्पादादिसकलविकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूच्छितसर्वप्रभेदनिर्भेदवीजं द्रव्यमगृहीततरङ्गादिप्रभेदस्तिमितसर:सलिलवत्,
“दव्वपरिणाममेत्तं मोत्तूणागारदरिसणं किं तं? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org